________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लघीयस्त्रयम्.. ८३ मेतत् । कुड्यादिपरभागादेरप्यसत्त्वापत्तेः। नाप्यनुमानमनुत्पत्तेः । साध्यसाधनसंबंधग्रहणपूर्वकमेव ह्यनुमानमुत्पद्यते । न च वक्तृत्वादेरसर्वज्ञत्वेन संबंधः साकल्येन केनचित्प्रतिपत्तुं शक्यः। सर्वेषां किंचिज्ञत्वात् । अनुमानांतरात्तत्संबंधप्रतिपत्तौ चानवस्थापत्तेः । ततः संदिग्धानेकांतिकाद्वक्तृत्वादेर्न सर्वज्ञत्वनिषेधः साधनीयः । नागमादप्यसौ बाध्यते तस्यापौरुषेयासिद्धेः पौरुषेयस्य तत्साधकत्वात् । दृष्टेष्टाविरुद्धं हि वचनमागमो न सर्वज्ञं । तच्च सर्वज्ञप्रणीतमेव न रागद्वेषमोहाक्रांतपुरुषप्रयुक्तं, तस्य तथाविधवचनप्रयोगायोगात् । रथ्यापुरुषवत् । नन्वेवं श्रुतस्य सुगतादीनामपि संभवात् अर्हन्नेव तत्प्रणेता न संभवतीति चेन्न । तेषामपि दृष्टेष्टविरुद्धवक्तृत्वात् । अनेकांतात्मकवस्तुप्रतिपादकं हि प्रवचनं दृष्टेष्टाविरोधि प्रत्यक्षादिप्रमाणाविसंवादादिति ॥
इदानीं श्रुतस्य व्यापारभेदं दर्शयतिउपयोगौ श्रुतस्य द्वौ स्याद्वादनयसंज्ञितौ ॥ स्याहादः सकलादेशो नयो विकलसंकथा १२
भवतः । कौ उपयोगी व्यापारौ। कस्य श्रुतस्य श्रूयते इति श्रुतमाप्तवचनं । वर्णपदवाक्यात्मकं द्रव्यरूपं तस्य भावश्रुतस्य वा श्रवणं श्रुतमिति निरुक्तेः। कति द्वौ । किंनामानौ स्याद्वादनयसंज्ञितौ स्यात्कथंचित् प्रतिपक्षापेक्षया वचनं
For Private And Personal Use Only