SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भट्टाकलंकप्रणीतं प्रमाणभेदसंख्याऽपि संभाव्यत इत्याह- अत्रेत्यादि । न युज्यते न संभवंति । के नियमाः द्वित्र्यादिसंख्याप्रतिज्ञाः । किंविशिष्टाः परपरिकल्पिताः परैः सौगतादिभिः कल्पिता रचिताः । कुतो न युज्यंते अंतर्भावात् संग्रहात् । कासां अन्यसंविदां अनुमानादिज्ञानानां । व अत्रैव प्रत्यक्षपरोक्षसंग्रह एव । तत्र प्रत्यक्षमिंद्रियानींद्रियातींद्रियभेदात् त्रिधा । स्पर्शादींद्रियव्यापारप्रभवमिंद्रियप्रत्यक्षं । केवलमनोव्यापारप्रभवमनिंद्रियप्रत्यक्षं । तदेतद्यमपि सांव्यवहारिकं देशतो वैशद्यात् । अतींद्रियं पुनः मुख्यप्रत्यक्ष अवधिमनःपर्ययकेवलज्ञानभेदात् त्रिधा । तत्र मूर्तद्रव्यालंबनमवधिज्ञानं देशावधिपरमावधिसर्वावधिभेदात् त्रिविधं । तत्र देवनारकाणां देशावधिर्भवप्रत्यय एव । तिर्यड्मनुष्याणां गुणप्रत्ययः । इतरौ मनुष्यस्य चरमशरीरस्य संयतस्य गुणप्रत्ययावेव । ऋजुमतिविपुलमतिभेदान्मनःपर्ययो द्विधा । प्रगुणनिर्वर्तितमनोवाकायगतसूक्ष्मद्रव्यालंबन ऋजुमतिमनःपर्ययः । प्रगुणाप्रगुणनिर्वर्तितमनोवाक्कायगतसूक्ष्मेतरार्थावलंबनो विपुलमतिमनःपर्ययः । त्रिकालगतानंतपर्यायपरिणतजीवाजीवद्रव्याणां युगपत्साक्षात्करणं केवलज्ञानं अखिलावरणवीर्यांतरायनिरवशेषविश्लेषविजूंभितं । तद्वानस्ति कश्चित्पुरुषविशेषः सुनिश्चितासंभवबाधकप्रमाणत्वात् सुखादिवत् । न खलु तस्य प्रत्यक्षं बाधकमप्रवृत्तेः । ततो निवर्तमानं तबाधकमिति चेदयुक्त For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy