________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लघीयस्त्रयम्. व्यवसायात्मकं ज्ञानमात्मार्थग्राहकं मतं ॥ ग्रहणं निर्णयस्तेन मुख्यं प्रामाण्यमश्नुते॥१०॥
मतमिष्टं ज्ञातं च । किं ज्ञानं । किंस्वरूपं व्यवसायात्मकं विशेषस्य जात्याद्याकारस्यावसायो निश्चयः स एव वाऽऽत्मा स्वरूपं यस्य तत्तथोक्तं । अनेन प्रत्यक्षं कल्पनापोढमित्येतन्निरस्तं । पुनः किंविशिष्टं आत्मार्थग्राहक आत्मा स्वरूपमर्थो बाह्यो घटादिस्तौ गृह्णाति निर्णयतीत्यात्मार्थग्राहकं । अनेन ज्ञानमर्थग्राहकमेव न स्वरूपग्राहक, स्वग्राहकमेव नार्थग्राहकमित्येकांतद्वयं निराकृतं । तेन कारणेनाश्नुते भजति । किं ग्रहणं ज्ञानं कर्तृ । किंरूपं निर्णयः स्वार्थव्यवसायस्तद्रूपमित्यर्थः । किं कर्मतापन्नं प्रामाण्यं प्रमाणभावं । किंविशिष्टं मुख्यमनुपचरितं ज्ञानकरणत्वादुपचारेणैवेंद्रियलिंगादेः प्रमाणत्वात् । ततः सूक्तं ज्ञानं प्रमाणमात्मादेरिति ॥
इदानीं तत्संख्यामाहतत्प्रत्यक्षं परोक्षं च द्विधैवात्रान्यसविदां ।। अंतभावान्न युज्यंते नियमाः परकल्पिताः॥११॥
यत्सम्यग्ज्ञानात्मकं प्रमाणं तत् द्विधैव द्विप्रकारमेव । तावेव प्रकारावाह- प्रत्यक्षं परोक्षं चेति । नन्वनुमानादि
For Private And Personal Use Only