SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८० भट्टाकलंकप्रणीतं रात् । कथं प्रत्येकं एकमेकं प्रति नियतमेकैकमित्यर्थः । सह मिलित्वा वा तानि प्रामाण्यहेतुतां न भजंति तत्रितयस्यापि शुक्ले शंखे पीताकारज्ञानजनकेन समनंतरप्रत्ययेन व्यभिचारात् ॥ ततः स्वकारणकलापादुपजायमानं प्रकाशरूपं ज्ञानं स्वत एवार्थग्राहकमित्याह स्वहेतुजनितोऽप्यर्थः परिच्छेद्यः स्वतो यथा ॥ तथा ज्ञानं स्वहेतूत्थं परिच्छेदात्मकं स्वतः ९ यथा स्यात् । कः अर्थः घटादिः। किंविशिष्टः स्यात् परिच्छेद्यो ज्ञेयः । कथं स्वतः स्वभावादेव न ज्ञानादुत्पत्यादेः। किंभूतोऽपि स्वहेतुजनितोऽपि स्वस्य हेतुमंदादिसामग्री तेन जनितो निष्पादितोऽपि । तथा ज्ञानं परिच्छेदात्मकमर्थग्रहणात्मकं स्यात् । कुतः स्वभावादेव नार्थादुत्पत्यादेः। किंविशिष्टमपि स्वहेतूत्थमपि । स्वस्य हेतुरंतरंगः आवरणक्षयोपशमलक्षणः । बहिरंगः पुनरािंद्रियानिंद्रियरूपस्तस्मादुत्था उत्पत्तिर्यस्य तत्तथोक्तं तादृशमपीत्यर्थः । अर्थग्रहणस्वभावं हि ज्ञानं केनचित्प्रतिबद्धशक्तिकं किंचिदेव जानाति । प्रतिबंधविगमविशेषे त तदेव स्वविषयविशेषं जानातीति ॥ अथ ज्ञान प्रमाणमात्मादेरित्यमुमेवार्थं विशदयति--- For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy