SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ काव्यप्रकाशखण्डन वीर-भयानकयोनैरन्तर्येण विरोध इति रसान्तरमन्तरे कार्यम् । यथा नागानन्दे शान्तस्व जीमूतवाहनस्य 'अहो गीतमहो वादित्रम् ' - इत्यद्भुतमन्तर्निवेश्य मलयवतीं प्रति शृङ्गारो बद्धः । स्मर्यमाणो विरुद्धोऽपि साम्येनाथ विवक्षितः । अन्त्यमा यी तो न कुछ परस्परम् ॥ ( जू० का० ६५ ) यथा - 'अयं स रस (श) नोत्कर्षी' इत्यादौ पूर्वावस्थास्मरणं शृङ्गाराङ्गमपि करुणं पोषयति । 'साम्येने 'ति यथा - सरागया श्रुतधनधर्मतोयया कराहतिध्वनितपृधूरुपीठया । मुहुर्मुहुर्दशन विलसितोष्ठया रुषा नृपाः प्रियतमए ( ये ) व मेजिरे । इत्यत्र शृङ्गार - रौद्रयोः साम्यविवक्षणाददोषत्वम् । 'अङ्गिन्यङ्गत्व' मिति यथा - क्षिप्तो हस्तावलयः प्रसभमभिहतोऽप्याददानोंऽशुकान्तं गृछन् केशेष्वपास्तश्चरणनिपतितो नेक्षितः संभ्रमेण । आलिङ्गन् योऽवधूत त्रिपुर युवतिभिः साश्रुनेत्रोत्पलाभिः कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराभिः ॥ सः प्रसिद्ध प्रभावः शाम्भवः शम्भुसम्बन्धी शराग्निर्वाणाग्निः वो युष्माकं दुरितं पापं दहतु भस्मीकरोतु । क इव ? कामीव कामुक इव । कीदृश: ? आर्द्रापराधः - आर्द्रा नूतनोऽपराधेो यस्य सः । शराः कामुकस्य च । [५०३८.२ ] विशेषणान्याह - हस्ते पाणाववरुमः सम्बद्धः सन्, त्रिपुरयुवतिभिः त्रिपुरनामक दैत्यस्त्रीभिः क्षिप्तो दूरीकृतः । शरान्नेर्हस्तसंपर्के कामुकस्याप्यपराधक्षमापनाद्यर्थं करग्रहणे स्त्रीणां प्रक्षेपस्त्रोचितत्वात् । प्रसभं हठात् अंशुकान्तं } प्रान्तं आददानः सन् अभितो दूरीकृत स्तिरस्कृतश्च । वस्त्रान्तेऽमेः संपर्केऽभिहतस्व सहसा कृतापराधेन नायकेन वस्त्रप्रान्तधारणे सति रुष्टया तद् भिहननस्य न्याय्यत्वात् । केशेषु चिकुरेषु गृहन् स्पृशन् अपास्तः दूरीकृतोऽवज्ञातश्च । अः केशसंपर्के कृतापराधेन चुम्बनार्थं नायिका केशग्रहणे तया तदपासनस्य न्याय्यत्वात् । चरणयोः पादयोः पतितः सन्, संभ्रमेण नेक्षितो नावलोकितः । व्यासङ्गेन चरणतलपति तस्याः, प्रसादनाय च तत्रैव पतितस्य नाथकस्य क्रोधेनानवलोकनस्थोचितत्वात् । यः शराभिः कामुकश्च आलिङ्गन् दवत् (१) सन् अवधूतस्त्यक्तः । उभयोरप्या लिङ्गय मानयोस्त्यागस्योचितत्वात् । त्रिपुरयुवतिभिः कीदृशीभिः ? साखं सजल नेत्रोत्पलं नेत्रात्मकनीलकमलं यासां ताभिरित्यर्थः । इत्यत्र त्रिपुररिपुप्रभावातिशयस्य करुणोऽक्कम्, सस्य तु शृङ्गारः, तस्यापि च करुणे विश्रान्तिरिति शृङ्गारपरिपोषितेन करुणेन मुख्य एवार्थे उपोद्बल्यते ॥ ॥ इति पादशाह श्री अकबर सूर्यसहस्रनामाध्यापक- श्रीशत्रुज यतीर्थंकर भोचनाद्यने कसुकृतविधापक महोपाध्याय - श्री भानु चन्द्रगणिगशिष्याष्टोत्तरशतान धानसाधनप्रमुदितपादशाहश्री अक्रम्बर प्रदत्त-सुरुफहगावरानिधान महोपाध्याय - श्रीसिद्धि चन्द्रगणिविरचिते काव्यप्रकाशखण्डने सप्तम उल्लासः ॥ ર *
SR No.090255
Book TitleKavyaprakashkhandan
Original Sutra AuthorN/A
AuthorSiddhichandragani
PublisherZZZ Unknown
Publication Year
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy