________________
चतुर्थ उल्लास इति दिशा बासस्य व्यभिचारित्वम् । भयस्य स्थायित्वमिति बोध्यम् । तत्राऽऽदौ भावोदाहरणम् -
कण्ठकोणविनिविष्टमीश ! ते कालकूटमपि मे महामृतम् ।
अप्युपातममृतं भवद्धपुर्भेदवृत्ति यदि मे न रोचने ॥ ननु कथमस्य न रसत्वम् ! 'नवरसा अन्य मायाइति खाने छः मुनिमा विना करणात् । असुरादौ कवेः रत्यभावेऽपि तत्प्रतापादिवर्णनं तज्जेतुरुत्कर्षप्रतिपादनाय । व्यभिचारी यथा --
जाने कोपपरामुखी प्रियतमा स्वप्नेऽद्य दृष्टा मया ___ मा मा संस्पृश पाणिनेति रुदती गन्तुं प्रवृत्ता ततः । नो यावत्परिचुम्ब्य चाटुकशतैराश्वासयामि प्रियां
भ्रातस्तावदहं शठेन विधिना निद्रादरिद्रीकृतः ॥ अन्न रसेऽनुभूयमानेऽपि विधि प्रत्यसूयैव काव्यसर्वखत्वेन अनुभूयत इत्यसौ मावध्यनिरिति व्यवतियते । 'प्राधान्येन व्यपदेशा भवन्तीति' न्यायात् । इयं भावस्थितिरुक्ता ।
तदाभासा अनौचित्यप्रवर्तिताः । (मू० का० ३६, पू० ) तदाभासा रसाभासा भावाभासाश्च । यथा -
स्तुमः कं वामाक्षि! क्षणमपि विना यं न रमसे,
विलेभे का प्राणान् खलु रणमुखे यं मृगयसे । सुलग्ने को जातः शशिमुखि! यमालिङ्गसि बलात्
_तप:श्रीः कस्यैषा मदननगरि ध्यायसि तु यम् ॥ अत्र यं यमित्यसकृत्कोंपादानं अनेककामुकविषयमभिलाषं तस्याः व्यनक्ति । यद्यकविषयत्वमभिप्रेतं स्यात् तदासकृदेव कर्मोपादानं कुर्यात् । यद्वा रमणान्वेषणादिव्यापारा बह्वस्ते च सर्वे एव वर्तमानकालीना नैकविषयत्वे संभवन्तीत्यनेककामुकविषयाभिलाषप्रत्ययाद रतेराभासत्वम् । [५. १५.७] वस्तुतस्तु परस्परजीवितसर्वस्खयोरनुरागस्यैव रसवात् शास्त्रातिक्रमाद्यनौचित्यं रसत्वविरोधीति ध्येयम् ।
भावाभासो यथाराकासुधाकरमुखी तरलायताक्षी सस्मेरयौवनतरङ्गितविभ्रमाङ्गी । तत् किं करोमि विदधे कथमत्र मैत्री तत्स्वीकृतिव्यतिकरे क इवाभ्युपायः ॥ अत्र चिन्ता अनौचित्यप्रवर्तिता । एवमन्येऽप्युदाहार्याः ।
भावस्य शान्तिरुद्धयः सन्धिः शबलता तथा ॥ (मू० का० ३६३ उ• )