________________
चतुर्थ उल्लास
२१ वीप्सायांयावत्संभवस्ताबद् विधिः । प्रथम कृत्तिं उत्कृत्योत्कृत्य अथ मांसानि जग्भवा क्रव्यमतीत्यन्वयः । उत्सेत्र उच्छूनता, उद्बोध इत्यपि पाठान्तरम् , अर्थस्तु स एव । स्फिक् ऊरूमूलकटिसन्धिमागः, पिण्डी असोध्र्वभागः, पिण्ड' इति पाठे तदाकारकस्वात् । तथा स्थपुटं विषमगभीरभागः । करकस्याङ्कसंस्थत्वं बलवपिशाचाशङ्कयैव, अत एव दृक्प्रेरणं दशनप्रकटनं च । अत्र शव आलम्बनम् , उत्कर्तनाद्युद्दीपनम् , नासाकुश्चनादयोऽनुभावाः, उद्वेगादयः सञ्चारिणः । अद्भुतमाह - चित्रं महानेप नवाऽवतारः क्व कान्तिरेपाऽभिनव भङ्गिः।
लोकोत्तरं धैर्यमहो प्रभावः काप्यारातिर्नूतन एव सर्गः॥ [१, १३.२ ] अन्न 'चित्रं महान् वत लोकोत्तरम् अहो कापि नूतन' इति शब्दाः स्वसमभित्र्याहतशब्दार्थस्यालौकिकत्वप्रकाशकाः । अवतार इति सदाचारादिप्रवर्तकत्वात् । अविकार इति पाठे विकाराभाव इत्यर्थः । अत्र मा(महापुरुष आलम्बनम् , तद्गुणातिशय उद्दीपनम् , स्ववादयोऽनुभावाः, मति-धृति-हर्षादयः सञ्चारिणः : एवं विमानादयो भावनपि भाव्याः । . अथ करुणादीनां कथं न रसत्वमिति चेत् , उच्यते
इष्टनावादिभिश्चेतोषकुष्य शोक उच्यते । तथा
रोदशक्त्या तु जनितं चैलव्यं मनसो भयम् ।
दोक्षणादिमिर्गही जुगुप्सेत्ति निगद्यते ।। तथा
तत्वज्ञानाद् यदीयादेनिवेदः स्वावमाननम् ॥ इत्यादिनियुक्तशोकादिप्रवृत्तिकानां करुणादीनां रसत्वनिषेधात् । न च तेषां तथाभूतत्वेऽपि अभिव्यक्तानन्दचिदात्मना सहाभिव्यक्तानां रसत्वमिति वाच्यम् । एवमपि स्थायंशे रसत्वविरोधात् । अथालौकिकविभावाभिव्यक्तानां तेषां रसत्वमुचितम् , सुरते दन्ताधाघातस्याखायवदिति चेत् , न । एवं क्षुधापिपासादिनानाविधदुःखहेतुजनितचेतोवैतन्यस्यापि रसान्तरत्वापत्तेः । सुरते दन्ताघातस्य बलवत्कामसंभवदुःखनाशकवेन भारापगमानन्तरं सुखिनः संकृत्वा स इतिवदुपादेयत्वम् । यत् तु शोकादयोऽपि रत्यादिवत् स्वप्रकाशज्ञानमुखात्मका इति तदुन्मत्प्रलपितम् । किञ्च सामाजिकेषु मृतकलबपुत्रादीनां विभाषादीनां शोकादिस्थायिभावस्य चर्वणीयेन अज-महीपालादिना सह साधारण्यम् , अनुपातादिदर्शनात् । वर्णनीयतामयीभवनं चापेक्षितमिति चेत्, कथं ब्रह्मानन्दसहोदररसोद्बोधः कथं वा नाम(मा)कल्यम् ? अत एवं केचिदज विलापादिकं न पठन्ति । बीभत्से तु मांसपूयाद्युपस्थित्या घान्तनिष्ठीवनादिकं यत्न भवेत् तदेवाश्चर्यम् , कुतस्तादृशपरमानन्दरूपरसोद्बोध इति । एवं भयेऽपि । तथा शान्तस्य त्यक्त-[प. १४.१ ] सर्यवासनेषु भवतु नाम कथञ्चिद् रसत्त्वम् , विषयिषु पुनः सर्पविषयोपरमोपस्थित्या कथं रसत्वम् ? । तदुक्तम् -