________________
चतुर्थ उल्लास आयपादत्रयमेव विप्रलम्भोदाहरणम् । क्रूरेत्यादि वाक्यान्तरं भावाभिव्यञ्जकम् । अतः शठेन, विधिनेत्यस्य मानेन तुल्यता, सत्र समाप्तिपर्यन्तं यावत्-तावत्पदाभ्यामेकवाक्यत्वेनैवान्वयात् ।
यूनोरेकसरस्मिन् गतवति लोकान्तरं पुनर्लभ्ये ।
विममायते यकस्तदा भयेत् करण-विप्रलम्भः ॥ इति । मूछितनायकादिविषयः करुण-विप्रलम्भोऽन्योऽप्यस्तीति प्राश्चः। अथ हास्यादीनां उदाहरणम् - आकुश्चय पाणिमशुचिं मम मूर्ध्नि वेश्या मनाम्भसा प्रतिपदं पृषतैः पवित्रे । तारखरं प्रहितथूकमदात् प्रहारं हाहा हतोऽहमिति रोदिति विष्णुशर्मा ।। हाहा हतोऽहमित्यन्तेन तादृशमुच्चार्येत्यर्थः । शर्मान्तनामश्रवणे हि हसितं स्यात् । अत्र विष्णुशर्मा आलम्बनम् , तस्य रोदनमुद्दीपनम् , द्रष्टुरुद्वेगजाड्यादयो व्यभिचारिणः, स्मितहसितातिहसितानि उत्तम-मध्यमेष्वनुभावाः । यस्य हासस्तदनिबन्धेऽपि सामर्थ्यात् तदवसायः । तदुक्तम्
यस्स हासः स चेत् कापि साक्षाव निबध्यते ।
तथाऽप्येष विमायादिसामदिवसीयते ॥ विकृतवाग्वेषादिदर्शनेनावश्यं हास्योदयाद् अत्र हास्यो रसः । करुणमाह -
हा मातस्त्वरिताऽसि कुत्र [प.१२.२] किमिदं हा देवताः काशिषो
धिक् प्राणान् पतितोऽशनिहुँतवहस्तेऽङ्गेषु दग्धे दृशौ । इत्थं घघरमध्यरुद्धकरुणाः पौराङ्गनानां गिर
चित्रस्थानपि रोदयन्ति शतधा कुर्वन्ति भित्तीरपि ॥ सादृक्पूनादिभिरप्यरक्षणात् देवताक्षेपः । विविधदानादितपितानां द्विजानामाशीभिरपि न किञ्चित् कृतमित्याह - केति । मध्यरुद्ध इति बाप्पबाहुल्येनान्तरावस्थानम् । इत्यमिति गिर इत्यनेनान्वितम् । अत्र नृपयोपिदालम्चनम् , तत्शरीरवहिसंयोगादि उद्दीपनम् , नोदनमनुभावः, दैन्यग्लानिमूर्छादयः सञ्चारिणः । रौद्रमाह
कृतमनुमतं दृष्टं वा यरिदं गुरुपातकं
मनुजपशुभिर्निर्मर्यादैर्भवद्भिदायुधैः । नरकरिपुंणा सार्द्ध तेषां सभीमकिरीटिना
मयमहममृम्मेदोमांसः करोमि दिशां वलिम् ॥
'काव्यस्य इति दिपणी।