________________
काव्यप्रकाशलण्डन इत्यल्पेतरकल्पनाकवलितस्वान्ता निशान्तान्तरे
बाला वृत्वविवर्तनव्यतिकरा नाप्नोति निद्रां निशि ॥ एषा विरहोत्कण्ठिता । अन्यत्र प्रवासे नायिकान्तरगृहे वा तत् तावदलीकमेव तत्कथाऽपि नास्ति । नापि कश्चिदीग् एतस्य सुहृन्मित्रं यो मां नेच्छति न सहते यनिषिद्धो मागच्छेदिति भाषः । शीनं च नागतः कोऽयं विधेः प्रक्रमः ! विधेर्दवस्य प्रक्रम भारम्भः । कोऽयमित्यननुभूतपूर्वः । इत्थं बहुवितकर्मस्तं मनो यस्याः, वृत्तविवर्त्तनं उद्धृत्तपरिवर्तनं शय्यायां परिवृत्तिः, तस्य व्यतिकरः सम्बन्धो यस्याः सा । निशान्तान्तरे गृहाभ्यन्तरे वाला तन्वी निद्रा सुप्ति निशि रात्रौ नाप्नोति नाधिगच्छतीत्यन्वयः । इDहेतुकमुदाहरति
सा पत्युः प्रथमापराधसमये सख्योपदेशं विना
नो जानाति सविभ्रमानवलनावक्रोक्तिसंसूचनम् । स्वच्छैरच्छकपोलमूलगलितैः पर्यस्तनेत्रोत्पला
बाला केवलमेव रोदिति लुठल्लोलोदकरश्रुभिः ॥ छठन्तो लोला अलका येषु तैः अश्रुभिः, पर्यस्ते व्याकुलीकृते नेत्रोत्पले यस्याः सा बाला केवलमेव रोदितीत्यन्वयः । सख्या भावः सख्यं तेनोपदेशः । नारायणमट्टास्तु 'सल्या इति पछी एकादेशः प्रामादिकः' इति पेटुस्तश्चिन्त्यम् । अन्न पत्युरन्यासनाद् बालाया ईयो । प्रवासहेतुकमुवाहरति
प्रस्थानं वलयैः कृतं प्रियसखैरौरजस्रं गतं
धृत्या न क्षणमासितं व्यवसितं चित्तेन गन्तुं पुरः । यातुं निश्चितषेतसि प्रियतमे सधै समं प्रस्थिताः
गन्तव्ये सति जीवित ! प्रिय ! सुहृत्सार्थः किमुत्सृज्यते ॥ वलयैरिति तेन कार्थम् । अत्राणामपि हृदयस्थितत्वेन प्रियसखत्वम् | निश्चितचेतसि नो गन्तुमुद्यते । जीवितेति प्रियेति सम्बुद्धिः, [प. १२.३] कान्तस्येव तब त्यक्तुमुचितत्वात् । शापहेतुफमुदाहरति
स्वामालिख्य प्रणयकुपितां धातुरागैः शिलाया___मात्मानं ते चरणपतितं यात्रदिच्छामि कत्तम् । अनस्तावन्मुहुरुपचितैदृष्टिरालुप्यते मे
क्रूरस्तस्मिन्नपि न सहते सममं नौ कृतान्तः ॥ कुपिताया लौहित्यौचित्लात् धातुरागैरिस्युक्तम् । अत्रेच्छासमयस्सरणोद्रितविरजनिताशुभिदृष्टिलोपस्तेन लिखन-पादपतनयोरप्यनिर्वाहः । अर्थान्तरं न्यस्पति-क्रूर इति कृतान्तो दैवं तदेव कृतान्तो यमः । 'कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु' इत्यनुशासनात् । अत्र