SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ चतुर्थ उल्लास शून्यं वासगृहं विलोक्य शयनादुत्थाय किञ्चिच्छनै निद्रान्याजमुपागतस्य सुचिरं निर्वये पत्युमुखम् । विश्रब्धं परिचुम्ब्य जालपुलकामालोक्य गण्डस्थली लजानम्रमुखी नियेण हसता वाला चिरं चुम्बिता ॥ शून्यमित्यादिना उद्दीपनातिशयः, दुम्बनप्रवृत्तियोग्यता च ध्वन्यते । एवं वासगृहमित्युपकरणसंपत्तिः । विलोक्य निपुणं निभाल्य, सहचरनिभृतत्वशङ्कया, किञ्चित् न तु सर्वतः, निद्राभाभिया, [५० ११.१] शयनादुस्थायेत्युत्कण्ठातिशयो ध्वन्यते । शनैर्वलयादिकाणो यथा न स्यात् । निद्राव्याजमुपागतस्येत्यनेन तदीयधाष्टाभिधानम् , पत्युमुखमित्यनेन युझानुरागित्वम् , विश्रब्धमित्यनेन अनुरागातिशयादविमृश्यकारित्वम् । नम्रमुखी न तु नामितमुखी, लज्जातिशयात्' तथा व्याकुलाऽभूत् येन मुखावनामनेऽपि न स्वातन्त्र्यम् । चिरमित्यनेन लज्जापगमः संभोगवीकारश्च व्यज्यते । हसता तव निखिलमेव रहस्यमवगतमिति हासः । रजत इति लज्जा पृथक् पदम् , ततो मुखनमनलज्जनक्रियापेक्षया समानकर्तृकत्वेन, आलोअयेत्यत्र कत्वोत्पत्तिः। .. अपरस्त्वमिलापविरहेाप्रवासशापहेतुकः पञ्चविधः । स च सङ्गमप्रत्याशाकालीनस्तदनुत्पादः । अभिलाषः इच्छा, देशैक्येऽपि गुर्वादिपारतन्ध्यं विरहः । देशैक्येति विशेषणादस्य प्रवासतो भेदः । अन्यसङ्गिनि प्रिये कोपः ईर्ष्या, प्रवासो वैदेश्यम् , मुन्यादिनियङ्गणं शापः । अत्र हेतुः पूर्ववर्ती, अमिलापस्यानुत्पादकत्वेऽपि पूर्ववर्तित्वं नियतमेव सिद्धम् , इच्छाविरहात् । क्रमेण उदाहरणानि -- प्रेमाः प्रणयस्पृशः परिचयादुद्गाढरागोदयाः तास्ता मुग्धदृशो निसर्गचतुरा चेष्टा भवेयुर्मयि । यास्त्वन्तःकरणस्य बाह्यकरणव्यापाररोधी क्षणा दाशंसापरिकल्पितास्वपि भवत्यानन्दसान्द्रो लयः ॥ प्रणयः प्रेमैव कष्टापन्नम् । परिचयोऽत्यन्तसंपर्कः । केचित् तु प्रेम खेहः स एव प्रकृष्टः सन् प्रणयः उच्यते । स एव परिचयातिशयेन रञ्जनसमो राग इत्याहुः । भवेयुरिति प्रार्थनायो लिङ् । यास्त्राशंसापरिकल्पिताखपि अन्तःकरणस्य आनन्दसान्द्रो लयो भवतीत्यन्वयः । रोधीत्यत्रावश्यके णिनिः । निसर्गः स्वभावः, आशंसा इच्छा, लयस्तन्मयत्वम् , व्यापारः पटुवेन खसविषयमाहित्वम् । . विरहहेतुकमुदाहरति-- .. अन्यत्र जतीति का खलु कथा नाप्यस्य ताहा सुहृद् .. यो मां [५० ११.२] नेच्छति नागतश्च सहसा कोऽयं विधेः प्रक्रमः। का० प्र०३
SR No.090255
Book TitleKavyaprakashkhandan
Original Sutra AuthorN/A
AuthorSiddhichandragani
PublisherZZZ Unknown
Publication Year
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy