SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ काव्यप्रकाशखण्डन वशात् सपनं प्रत्यवस्कन्दनावसरः इत्याद्यर्थाः प्रकाश्यन्ते । कालो वर्षादिः । देशो दूरादिः । यथा-- उपरि घनाघनपटली दूरे दयिता किमेतदापतितम् । हिमवति दिव्योषधयः कोपाविष्टः फणी शिरसि ।। अत्र काल-देशवैशिष्टयेन अनातिशयोऽभिव्यज्यते । । इति पाद सपा नी : ०२ : जा. १३न सूपसहरु लामा-आपक-[ ५० ९.१ श्रीशत्रुञ्जयतीर्थकरमौचनाद्यनकसुकुतविधापकमहोपाध्याय-श्रीभानुचन्द्रगणिशिष्याटेत्तरशतावधानसाधनप्रमुदितपादसाहश्रीअकब्बरजल्लालदीनप्रदत्त-पुस्फहमापराभिमानमहोपाध्याय श्रीसिद्धि चन्द्रगणिविरचिते काव्यप्रकाराखण्डने तृतीय उल्लासः ।। चतुर्थ उल्लासः । अथ ध्वनिमैदानाह । तत्राऽदौ लक्षणामूलमाह - __ अविवक्षितबाच्यो यस्तत्र वाच्यं भवेद् ध्वनौ । अर्थान्तरे सङ्कमितमत्यन्तं वा तिरस्कृतम् ॥ (मु० का० २४) लक्षणामूलगूढन्यन्यप्राधान्ये सति अविवक्षितं वाच्यं यत्र स ध्वनावित्यनुवादाद् ध्वनिरिति ज्ञेयः । अत्राविवक्षितं वाच्यतावच्छेदकपकारेणेति बोध्यम् । अन्यथा 'काकेभ्यो दधि रक्ष्यताम्' इत्यत्र वाच्यस्यापि विवक्षणात् तदसंग्रहः स्यात् । अर्थान्तर इति । खार्थमपरित्यज्य अर्थान्तरपरशब्दकमित्यर्थः । अत्यन्तमिति । शक्यस्य सर्वथानन्वयित्वात्, अन्वयाप्रतियोगित्वं तिरस्कार इति । तदन लक्षणामूले अर्थान्तरसमितवाच्यात्यन्ततिरस्कृतवाचौ द्वौ भेदौ ज्ञेयौ । तत्राद्यो यथा स्वामसि वच्मि विदुषां समवायोऽत्र तिष्ठति । आत्मीयां मतिमादाय स्थितिमा विधेहि तत् ॥ अत्र याच्यस्त्रानुपयुज्यमानत्वात् लक्षणैवाश्रयणीया। तथा हि-त्वां उपदेश्यम् , अहमुपदेष्टा, वच्मि उपदिशामीत्यर्या लाक्षणिकाः । तथा चावश्यबाच्यहिताहितत्वालङ्घनीयाज्ञत्वादरमाहात्वानि व्यज्यन्ते । एवं विदुषां अनन्यसाधारणज्ञानवतां समवायः परस्परसापेक्षता आशुविपक्षदूषकत्वं सर्वग्राह्मैकपक्षवं व्यक्लाम् । आत्मीयां पराप्रतार्याम् , अदुष्टपक्षोद्भावनं फलम् , स्थिति सावधानाम् , विपक्षच्छिद्रप्रेक्षकत्वं फलमित्यर्थान्तरसङ्क्रमितवाच्यत्वं स्वार्थ अपरित्यज्य परार्थावबोधकत्वं प्रथमो भेदः । द्वितीयो यथा- 'उपकृतं बहु तत्रे त्यादिना । एतदपकारिणं प्रति विपरीतलक्षणया कश्चन वक्ति । अत्र अपकारातिशयो व्यङ्ग्यः । अत्र वाच्यस्य सर्वथान्वये[प० ९.२ ]ऽप्रवेशावत्यन्ततिरस्कृतवाच्यता । अन्वयाप्रवेश एव तिरस्कारः।
SR No.090255
Book TitleKavyaprakashkhandan
Original Sutra AuthorN/A
AuthorSiddhichandragani
PublisherZZZ Unknown
Publication Year
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy