________________
चतुर्थ उल्लास अभिघामूलमाह -
विवक्षितं चान्यपरं वाच्यं यत्रापरस्तु सः। (मू. का .., . अन्यपरं व्ययनिष्ठम् । तदाक्षेपकत्वेन तत्र विश्रान्तमिति यावत् । एतस्य विवक्षितान्यपरवाच्यस्य द्वौ भेदौ- एकोऽसंलक्ष्यक्रमव्यङ्गयो द्वितीयः संलक्ष्यकमन्यन्यः । अत्र संलक्ष्येति न खलु विभावानुभावसंचारिण एवं रसः, अपि तु रसस्तैः प्रत्याय्यत इति विमावादेर्व्यञ्जकस्य रसस्य व्यङ्ग्यस्यास्ति पौर्वापर्यक्रमः स न लक्ष्यत इत्यर्थः । आखादेन शटिति चित्ताकर्षणात् कालसौक्ष्म्याच । तत्र च
रसभाव-तदाभासभावशान्त्यादिरक्रमः। भिन्नो रसाचलङ्कारादलङ्कार्यतया स्थितः ॥ (मू० का० २६) अक्रमः असंलक्ष्यक्रमव्ययः, आदिमदणाद् भावोदयभावसन्धिभावशवलत्वानि गृह्यन्ते । गुणीभूतव्यथेति व्याप्तिवारणाय मिन्नेति हेतुमाह - अलकार्यतया स्थित इति प्रधानतया यत्र स्थितो रसादिस्तत्रालङ्कार्यः । अन्यत्र तु प्रधाने वाक्यार्थे यत्राङ्गभूतो रसादिस्वन्न गुणीभूतव्यद्य रसवत् प्रेयऊर्जखित्समाहितादयोऽलङ्काराः । स्थिरः स्थिरतामापन्नः तेन अशा बाध्यता वा प्राधे रसाद न तथात्वमिति । रसवदितीवार्थे वतिः । अङ्गभूतस्य रसख परि. पुष्ट्यभावाद् रसतुल्यत्वात् । प्रेय इति भावस्याङ्गत्वे समाहितमिति मन्तव्यम् । तत्र रसखरूपमाह -
कारणान्यथ कार्याणि सहचारीणि यानि तु । रत्यादेः स्थायिनो लोके तानि चेन्नाव्य-काव्ययोः ।। (मू. का. २७) विभावानुभावास्तत् कथ्यन्ते व्यभिचारिणः।
व्यक्तः स तैर्विभावाद्यैः स्थायी भावो रसः स्मृतः ॥ (मू० का० २८) 'कारणानि' राम-सीतादीनि, परस्परानुरागे परस्परकारणानि, तस्योद्दीपनकारणानि उद्यानादीनि. अथश्चार्थे. कटाक्षादीनि कार्याणि, लज्जा-हास्यादीनि सहचारीणि रत्यादेरुपबायकानि. सामग्रीसंपातेन रत्यादिभिः सहचरणात् । 'सहकारीणी'ति तु [५० १०.1] पाठे रत्यादेरेकरूपस्य तत्चद्विचित्रसितरुदितादिकार्यजननयोगे सामग्रीवैचित्र्यापादकानि ।
विभावा' इति । से तु द्विधा-आलम्बनविभावा नायिकादयः, उद्दीपनविभावा उद्यानादयः इति । ननु कारणादिशब्दसत्त्वे कथं विभावादिसंज्ञेति चेत्, उच्यते-सामाजिकनिष्ठरत्यादीनां आराध्यत्वेन ज्ञाता[:] सीतादयो, न ते कारणादयो येन तथा स्युः । तेषां च विभावानुमावसञ्चाराणां त्रयव्यापारवत्त्वाच्च, तथाविधसंज्ञाः, तेषां च व्यापाराणा रत्यादेरीषप्रकाशः स्फुटतरप्रकाशः स्फुटतमप्रकाशः फलम् । विगलितवेद्यान्तरत्वेन स्थितिः, पुरस्फुर