SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ द्वितीय उल्लास प्रतीतेरन्यथोपपादयितुमशक्यत्वात् । अत्र तु अनुमानेन लक्षणया वा उपपादयितुं शकयत्वात् न व्यञ्जना पृथक् । ननु एवं अनुमानेन व्यञ्जनान्यथासिद्धी शब्दप्रामाण्यमपि भज्येत । घटमानयेत्यत्र कर्मस्वं घटवत् । घटनिरूपिताकांक्षायोग्यता दिमत्पदस्मारितत्वात् । इत्यनुमानेन शाब्दबोधसमशील ज्ञानजनन संभवात् इति चेत् न । योग्यतायाः लिङ्गविशेषणत्वासंभवात् तस्याः संशयसाधारणज्ञानस्य कारणत्वात् हेतुनिश्चयकारणत्वस्य सर्वसम्मतत्वात्, शब्दस्थले व्याल्यादिप्रतिसन्धानं विनाऽपि अत्यन्तासत्यप्यर्थे बाघावतारेऽपि अन्वयबोधदर्शनात् । नानुमानेन शब्दमामाण्यस्यान्यथासिद्धिः । यथा - सर्वेषां प्रायशोऽर्थानां व्यञ्जकत्वमपीष्यते । (मू० छा० ७, पू० ) इति प्राचां मतानुसारेण वाच्य लक्ष्य व्ययानां व्यञ्जकतामाह । तत्र वाच्यस्य " लक्ष्यस्य यथा 1 J माए घरोवअरणं अज हु णत्थि त्ति साहिअं तुमए । ता भण किं करणिजं एमेअ ण वासरो ठाइ ॥ [ मतगृहोपकरणं अथ खलु नास्तीति साधितं खया तद्भण किं करणीयं एवमेव न वासर [ : ] स्थास्यति ॥ ] " मातरित्याज्ञाकरणोपयोगित्वम्, गृहोपकरणमित्यनेनावश्यकर्तव्यत्वम्, अद्येत्यादिना अतिप्रसङ्गनिवारणम् त्वया कथितं न तु मयेत्यनेन अन्यथाशङ्कानिवृत्तिः, तत् शब्देन हेत्वर्थेन अवश्यवक्तव्यम् । एवमेत्र व्यास विना, वासरो न तिष्ठति । अतीते [प० ७.२] वासरे तवाज्ञयाऽपि न किश्चित् करिष्यामीति व्यज्यत इति व्यञ्जकता पदार्थानाम् । वाक्यार्थव्यञ्जकतामाह । अत्र वस्तूवैशिष्टयात् खैरविहारिणीति व्यज्यते । ११ साहती सहि सुहअंखणे खणे मिआसि मज्झ कए । सम्भावणेहकर जिस रिसअं दाव विरइअं तुमए [सायीसखि ! सुभगं क्षणे क्षणे दूनासि मस्कृते । सद्भावकरणीय तावद् विरचितं त्वया ॥ ] त्वयेति ज्ञातापकारिणीं प्रति एवंविधोक्तिरसम्भावितेति । बाधानन्तरं सद्भावेत्यादिना तदभावव्याप्यत्वेन विरोधी लक्ष्यते । तदाह - मत्प्रियं रमयन्त्या स्वया शत्रुत्वमाचरितमिति लक्ष्यम् । तेन कामुकविषयसापराधत्वप्रकाशनं व्यङ्ग्यम् । केचित् तु सद्भाव खेहाभ्यां तदभावो लक्ष्यते । तेन च तदतिशयः शत्रुत्वं व्यज्यते । लक्ष्यमित्यस्य लक्षणामूलव्यङ्ग्यत्वमर्थः । पार्यन्तिकव्ययं तु कामुकविषयकसापराधत्वप्रकाशनमित्यर्थः । अत्र वाक्यार्थव्यञ्जकस्वेऽपि लक्ष्यस्य व्यञ्जकत्वम् । भट्टमते तस्यापि लक्ष्यत्वात् । यद्वा अन्वयस्य व्यञ्जकत्वेऽपि अन्वयिनो व्यञ्जकत्वम् ।
SR No.090255
Book TitleKavyaprakashkhandan
Original Sutra AuthorN/A
AuthorSiddhichandragani
PublisherZZZ Unknown
Publication Year
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy