SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ १० काव्यप्रकाशखण्डेन भम धम्म वीसत्थो सो सुनओ अज मारिओ देन । गोडा १ ६.२ ] इकच्छ कुडंगवासिणा दरिअसिंहेन ॥ 2 इत्यत्र गृहे भयहेतुश्च निवृत्तिजन्यभ्रमण विधानेन गोदावरीतीरस्य सिंहवत्वेन मीश्रमणायोग्यत्वं व्ययम् । तत् तु गोदावरीतीरं मीरुभ्रमणायोग्यं सिंहवत्वात् । यतैवं तन्नैवम्, यथा गृहम् इत्यनुमानेन सेत्स्यांते, किं व्यञ्जनया । न च भीरुरपि गुरो: प्रभोः निर्देशेन प्रियानुरागेण वा भ्रमतीति व्यभिचार इति वाच्यम् । प्रभुनिर्देशाद्यनुपाधिकत्वेन भ्रमणस्य विशेषणीयत्वेन व्यभिचाराभावात् । नै च प्रतारिकावाक्यत्वेन वाक्यात् सिंहवस्वं न निश्चितमिति वाच्यम् । प्रतारिकाचाक्यादपि तत्त्वज्ञानदेशायां तन्निश्चयोत्पत्तेः । अथ व्यज्यत इति प्रतीत्या व्यञ्जनासिद्धि:, इति चेत्, न तस्याः प्रतीतेरनुमीयत इति प्रतीत्या सार्थत्वात् । अन्ये तु सोऽयमिषोरिव दीर्घदीर्घतरो व्यापार इति यत्परः शब्दः से शब्दार्थ इति न्यायाद् 'भम धम्मिअ' इत्यादौ भ्रमणायोग्यत्वं वाच्यमेव, न व्यङ्ग्यम् । न च यत्परः शब्द इत्यादेर्यवंशो विधेयः तत्रैव तात्पर्यमित्यर्थः । यथा दध्ना जुहोतीत्यत्र हवनस्यान्यतः सिद्धेर्दध्यादेः करणत्वे, न तु शब्दश्रवणानन्तरं प्रतीयमान एव तात्पर्यमित्यर्थः । तथा सति पूर्वी धावतीत्यत्र अपराद्यर्थेऽपि शब्दस्य प्रामाण्यं स्यादिति वाच्यम् । एवं विवक्षितेऽपि विधेयतया भ्रमणा योग्यत्वेऽपि तात्पर्यस्य वक्तुं शक्यत्वात् । चैवं लक्षणोच्छेद इति वाच्यम्; लक्ष्येऽर्थे परमतात्पर्याभावात् । अन्यत्रान्यशब्दप्रयोगस्तु तद्धर्मप्रात्यर्थ इति न्यायात् प्रतीयमाण(न) एव अर्थे परमतात्पर्यादित्याहु: । यदपि च नयनभयादेर्व्यञ्जकतेति तदपि न । तत्र चेष्टा विशेषस्यैव अनुमान विधया तत्तदर्थप्रत्यायकत्वात् । ननु न गया षट्पदार्थी मिना व्यञ्जना नाम काचिद् वृत्तिरङ्गीक्रियते येन धर्म्यन्तरकल्पनागौरवं स्यात् । किन्तु येन सम्बन्धेन पावनत्यादिकं उपस्थाप्यते तस्य व्यञ्जनये (१ ने ) ति नामोच्यते बाधित प० ७.१ ]बोधकत्वेन अभिघातस्तस्या वैलक्षण्यात् । न चाभिधादेरेव बाधितबोधकत्वमिति वाच्यम् ; तस्याः काप्येवमकल्पनात् तन्नः अभिधादेरेव बाधितबोधकवं कल्प्यम् । धर्मिकल्पनातो धर्मकल्पना लघीयसीति न्यायात् । नामान्तरकरणस्य वस्वन्तरासाधकत्वात् । ननु अनेनेदं नोक्तम्, किन्तु व्यञ्जितमिति प्रतीत्योर्वैलक्षण्यात्, अभिषातो व्यञ्जना पृथक, यथा अनुमिनोमि न साक्षात् करोमि इत्यनुभवबलात् प्रत्यक्षादनुमानं पृथक् इति चेन्न । तत्र १] हेतुरेव निश्चितो नास्तीति कथमनुमानं करिष्यतीत्याशङ्कते । २ अनया सत्यमेवोपपते इति ज्ञानदशायाम् । ३ यावानर्थो यस्मादात् प्राप्यते तावानर्थस्तेन वाच्यः । ४ मनन्यलम्यः 1 ५ प्रकरणादेः ।
SR No.090255
Book TitleKavyaprakashkhandan
Original Sutra AuthorN/A
AuthorSiddhichandragani
PublisherZZZ Unknown
Publication Year
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy