________________
द्वितीय उल्लास शिष्टतीरे लक्षणया विशिष्टार्थपतीतिर्भविष्यति । तदर्थ किं व्यञ्जनाकल्पनेन ! । न च शक्यस्य विशिष्टेन सह एकसम्बन्धाभावात् कथं विशिष्ट लक्षणेति वाच्यम् । यस्किश्चिदेकसम्बन्धस्य ज्ञानविषयत्वादेवतुं शक्यत्वात् । अस्मिन् पसे रूढिरिव प्रयोजनं विना लक्षणेत्यवघेयम् । मभिषामूलध्वनौ तु नानार्थि स्थले -
भद्रात्मनो दुरधिरोहतनोविशालवंशोचते कृतशिलीमुखसंग्रहस्य ।
यस्खा.प. ६.१]नुपाठवगतेः परवारणस्य दानाम्बुसेकसुभगः सततं करोऽभूत् ।। यस्य करः शयः शुण्डा वा, सततं दानं वितरणं मदो वा, तस्याम्बुनः सेकेन सुन्दरोऽभूत् । कीदृशस्य भद्रः श्रेष्ठः आत्मा यस्य, भद्रजातीयस्पेत्ति वा ।
. "मदो कदे नपे रामवरे मेरुकदम्बके ।
हसिजात्यन्तरे भद्रो वाच्यवच्छेष्ठसाधुनः ॥" - इति विश्वः । दुरधिरोहतनोः दुर्लभदर्शनस्य दुरारोहस्य वा, विशाले वंशे अन्ववाये पृष्ठोपरिमागे वा, उमतिर्यस्य स तस्य ।
"वंशो वेणौ कुले वर्ग पृष्ठस्यावयवेऽपि च ।" - इति विश्वः । तमा, कृतः शिलीमुखानां बाणानां मृशाणां वा सटहो येन स तस्य ।
___"शिलीमुखोऽलि-बाणयोः ।" - इति विश्वः । अनुपप्लवगतेः निरुपद्ववचेष्टितस्य स्थिरगमनस्य वा ।
___ "उपप्लवः सैहिकेये विश्लवोत्पातयोरपि ।" - इति विश्वः । परवारणस्य परेषा नियन्तुः, उत्कृष्टहस्तिनो वा इत्यक्षरार्थः । इत्यादौ स्थले राज-गजोमयार्थ एवं फलबलात् तात्पर्यग्रहादुमयप्रतीतिर्भविष्यति किं व्यञ्जनया । नानादिन्यत्र तु मुख्यार्थबाधे तत्तदर्थेषु रसादिषु तात्पर्यानुपपत्त्या पूर्ववत् लक्षणैव । यत् तु तसद् वर्णानां तत्सद् रसन्यञ्जकतया व्यञ्जनाऽवश्यमाश्रयणीयेति तदतीवतुच्छम् , अनभ्युपगमपराहतत्वात् । वस्तुतस्तु नाट्यादिदर्शनजन्यसुखविशेषस्यैव रसत्वस्य वक्ष्यमाणत्वेन तस्य व्यवस्वाभावात् , अपि तु साक्षात्कारविषयत्वात् ।।
अथ 'रुचिं कुर्वि'त्यादावसभ्यार्थोपस्थापकत्वेन व्यञ्जना स्वीकर्तव्या इति चेन्न । अंपशान्तरवत् तस्यापि तदर्थोपस्थापकत्वात् । अथ
द्वयं गतं संप्रति शोचनीयतां समागमग्रार्थनया कपालिनः । इत्यत्र पिनाक्यादिपदवलक्षण्येन कपाल्यादिपदानां व्यञ्जनां विना शिवनिन्दाबोधकत्वाभावात् कथं काव्यानुगुणत्वम् । इति चेत्, मैवम् ; तत्र योगबलात् कपालिपदस्य कपालित्वरूपशिव. प्रत्यायकत्वेन काव्यानुगुणस्वात् । वस्तुतस्तु अनुमानेन व्यञ्जनाऽन्यथासिद्धा । तथा हि -
। यया नगरीपदस्य पसे शमिनासि तथापि शक्तिभ्रमेण वरपदात् तदुपस्थिति यते । तथैवात्रापि शक्किममात् दुपस्थितिर्भविष्यतीत्याशयः ।
का०प्र०२