SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ 1 द्वितीय उल्लास द्वितीय उल्लासः । इदानीं शब्दार्थयोः खरूपमभिधातुं तयोर्विभागमाह स्यादू वाचको लोक्षणिकः शब्दोऽय व्यञ्जकस्त्रिधा । मू० का ० ६, पू० ) ara काव्ये, एषामर्था वाच्य लक्ष्य व्यस्यास्त्रयः । अथैषां स्वरूपम् - शमिवाचकrवं शक्ति मदर ईश्वरेच्छा विशेषोऽथ पदार्थान्तरमेव सा ॥ ! - चैत्र यस्य शक्तिस्तत्र तस्य वाचकत्वम् । यद्यप्यर्थक्रियाकारितया व्यक्तावेव शक्तिर्युक्ता । अर्थः प्रयोजनं किया निर्वाहः तथापि जातावेव शक्तिः तत्तदूविशिष्टायां व्यक्तौ गौरवादानन्त्याद् व्यभिचाराच । यत्र त्वानन्त्य व्यभिचारौ न स्तः तत्राकाशादिपदे व्यक्तावेव शक्तिः । जाति विशिष्टबोधस्तु जातिशक्तं पदं जातिविशिष्टं बोधयतीति कार्यकारणभावकल्पनया लक्षणया वा आक्षेपेण व्यञ्जनया वेति ध्येयम् । ईश्वरेच्छाविशेष इति । अस्माच्छब्दादयमर्थो बोद्धव्य इत्याकारिका ईश्वरेच्छा | ननु अस्य शक्तित्व एतादृश्या लक्षणास्थलेऽपि सत्त्वात् [ प ५. १] लक्षणोच्छेदः स्यात् ? इति चेत्, न । गङ्गापदात् प्रवाहरूपोऽर्थो बोद्धव्य इति विशेषरूपाया ईश्वरेच्छायाः शक्तित्वाभ्युपगमात् तत्रैवानुशासनादिप्रमाणसत्त्वाच्च । मीमांसकमेतद्वाह ( १ ) पदार्थान्तरमिति । लाक्षणिकं स्वरूपमाह - मुख्यार्थान्वया स्यात् अन्यार्थप्रतिपत्तिकृत् । लक्षणा शक्यसम्बन्धो रूढितोऽथ प्रयोजनात् ॥ ७ अत्र तात्पर्यविषयान्वये मुख्यार्थतावच्छेदकरूपेण मुख्यार्थप्रतियोगिता विरह इति चिवक्षणीयम् । अन्यथा "काकेभ्यो दधि रक्ष्यता' मित्यजहत्स्वार्थायामव्याप्तिः दध्युपपातकत्वेन काकस्याप्यन्वयात् । विवक्षिते तु काकत्वेन अन्वयबाधान्नाव्याप्तिः । विभजते- रूढिरित्यादि । रूढितः प्रसिद्धेः प्रयोग प्रवाहादिति यावत् । अत्र 'कर्मणि कुशल' इत्यादी दर्भग्रहणरूपमुख्यार्थबाधात् 'गङ्गायां घोष' इत्यादौ च घोषाद्यधिकरणताऽसंभवात् प्रसिद्धे[:] | व(बृक्षतव्यदिप्रतीतिस्तु शक्यसम्बन्धग्रहपूर्विकेति शक्यसम्बन्धो लक्षणेत्युच्यते । प्रयोजनवती विभजते यंत स्वार्थेन पराक्षेपः स्वार्थ हित्वाऽन्यकल्पनम् । 'उपादानं लक्षणं चेत्युक्ता शुद्धैव सा द्विधा ॥' ( मू० का ० १०, उ० ) २ यत्र यस्य शक्तिः स १ 'शक्तिलक्षणाव्यञ्जनात्मकवृतीनां त्रिष्माच्छन्दे त्रिस्वमुपचर्यत इत्यर्थः । तस्य वाचक इति निष्कर्षः । ३ आकाशादिपदेषु जात्यभावादेकव्यक्तिकेषु व्यक्तावेव शक्तिरिति निष्कर्षः । ४ जातावेव शक्तिव्यतावाक्षेप इति भाट्टाः । तद्धी नान्तरीकतया व्यक्तेर्भानमिति प्राभाकराः । जात्याकृतिव्यक्तिषु शक्तिरिति गौतम-वैशेषिकौ । जाति व्यक्त्योः शक्तिरिति पाणिनीयाः ।' इति मूलादर्शे टिप्पण्यः । मुद्रितस्तकेषु तु श्लोकोऽयं प्रायोऽन्यथारूपेण दरीश्यते । यथा "मुख्यार्थबाधे तद्योगे रूढितोऽथ प्रयोजनात् । अन्योऽर्थो लक्ष्यते यत्सां लक्षणारोपिता क्रिया ॥" लोका९
SR No.090255
Book TitleKavyaprakashkhandan
Original Sutra AuthorN/A
AuthorSiddhichandragani
PublisherZZZ Unknown
Publication Year
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy