SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ काव्यप्रकशिखण्डन अर्थचित्रमाह- विनिर्गतं मानदमात्ममन्दिराद् भवत्युपश्रुत्य यदृच्छयाऽपि यम् । ससंभ्रमेन्द्रद्वतपातितार्गला निमीलिताक्षीव मियाऽमरावती ॥ मानदमिति शत्रूणां मानस्य खण्डकं मानस्य दातारं हयग्रीवदैत्यं खगेहात् प्रस्थित श्रुत्वाऽपि भिया अमरावती निमीलितनेत्रेच भवति । कीदृशी ! ससंभ्रमेण सभयेनेन्द्रेण हृतं शीघ्रं पातिता दत्ता अर्गला द्वारदण्डो यस्याः सा तादृक् । "संभ्रमः साध्वसेऽपि स्यात् संवेगादरयोरपि' - इति विश्वः । अत्र तूत्प्रेक्षालङ्कारः । परन्तु रसादी कथं तात्पर्यविरोऽस्फुटतरत्वं वा तन्न ज्ञायते । हयग्रीवस्य वर्णनीयत प्रभावस्य स्फुटप्रतीतेः । अत्र केचित् - 'चित्रं न काव्यभेदः । व्यङ्ग्यस्य प्राधान्येन प्रतीतो ध्वनित्वं तदन्यथागुणीभूतत्वमिति प्रकारान्तराभावादिति । तन्न । वाच्य वाचकवैचित्र्यप्रतीतिव्यवहितप्रती[ति]करसवत्त्वस्यास्फुटव्यङ्ग्यत्वस्य तृतीयप्रकारस्य संभवात् । ननु रसध्वनित्वादिना अयं तृतीयविभागः कृतः । स च नोपपद्यते । तथा हि- एतेषु त्रिषु सर्वत्र रसादिकं प्रतीयते ने वा । नान्त्यः, तदा यत्र रसादिकं न प्रतीयते तत्र काव्यत्वविरहापत्तेः । नाद्यः, तदा कथं ध्वनित्वादिविभागः ? । न च मध्यमे व्ययस्याप्राधान्याद् विभाग इति वाच्यम् । अन्तरालिकव्ययस्याप्राधान्येऽपि तस्याकिश्चित्करत्वेन चमत्कारापेक्षया सर्वेषां ध्वनिलसंभवात् । अथ चित्रे गुणालङ्कारा हितचमत्कारेण रसस्तिरोधीयत इति चित्रत्वम्, इति चेत्, नं, अनवकोघात् । तिरोधीयत इत्यस्य कोर्थः । रसादेः प्रतीतिप्रतिबन्धो विलम्बेन प्रतीतिवी । नाथः, तथा सति काव्यत्य विरहापत्तेः । नान्त्यः, गुणालङ्कारा हि रसोद्बोधकाः । [ १० ४.२ ] तथा च तज्ज्ञानतदाहितचमत्कारान्तरं रसोद्वोघो युज्यत एवेति कथं न ध्वनित्वम् ? अत एव रसध्वनावपि गुणालङ्काररचना साधीयसी महाकवीनां दृश्यते । यथा --- गच्छति पुरः शरीरं धावति पश्चादसंस्थितं चेतः । चीनांशुक्रमिष केोः प्रतिवार्त नीयमानस्य ॥ इत्यत्र । ननु तर्हि 'स्वच्छन्दे' त्यादावपि पूर्वोक्तपद्यवद् ध्वनित्वे उत्तमत्वं स्यात् इति चेन्न । अनुप्रासानामसमीचीनत्वेन तथाविधगङ्गाविषयक भावोत्कर्षवर्णनाविरहाच्चानुत्तमत्वात् । अत एव महिमभङ्गानामस्मिन् पक्ष एव पक्षपातः । ॥ इति पादसाह श्री अकव्यरसूर्यसहस्रनामाध्यापक श्रीशत्रु अयतीर्थंकर मोचनाचने कसुकृत विद्यापकमहोपाध्याय - श्री भानुचन्द्रमणिशिष्याष्टोत्तरशताव घानसाधन प्रमुदित पादसाह श्री अकब्रजलालदीनप्रदत्त-षु (खु) स्फट्ट मापरामि धाग महोपाध्याय - श्री सिद्धिचन्द्रमणिविरचिते काव्यप्रकाश (ल) ण्डने प्रथम उल्लासः ॥ - ॐ '
SR No.090255
Book TitleKavyaprakashkhandan
Original Sutra AuthorN/A
AuthorSiddhichandragani
PublisherZZZ Unknown
Publication Year
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy