________________
प्रथम उल्लास 'तदन्तिकमेव' इत्येवकारो गताऽसीत्यनन्तरं योज्य' इत्याहुः । अत्र त्वय्यकृतज्ञायां मान्धवबुद्ध्या यद् विश्वसिमि, यत्र तत्र दुर्विदग्धे दृढमनुरक्तासि, तत् युक्तमेव । मय्येवंविधवञ्चनपात्रत्वमितीहेितुकविप्रलम्भभेदसंचारिनिवेदध्वनिः, तदनुगुणश्च दूतीसंभोगः, चन्दनच्यवनादीनां च वाच्यानां [५० ३.२ ] परिरम्भचुम्बनादीनां संभोगोत्कर्षद्वारेणेाया उत्तेजकानां निवेदोस्कर्षकत्वमवसेयम् ।
अताशि गुणीभूतव्यङ्ग्यं व्याये तु मध्यमम् । (भू. का० ५, पू०) व्यङ्ग्ये वाच्यात् अनतिशायिनि अधिकचमत्काराकारिणि गुणीभूतव्यजयं तन्मध्यम काव्यम् । चित्रान्यत्वेऽपीति विशेषणम् । तेन चित्रे नाव्याप्तिः । उदाहरणम् -
ग्रामतरुणं तरुण्या नववञ्जुलमञ्जरीसनाथकरम् ।
पश्यन्त्या भवति मुहुर्नितरां मलिना मुखच्छाया ॥ अत्र व ललितागृहे दचसङ्केता नागतेति व्यङ्ग्यं गुणीभूतम् , तदपेक्षया वाच्यस्यैव चमत्कारित्वात् ।
अत्र व्यायेन सङ्केतभनेन विप्रलम्मामासस्य वाच्यवदनकान्तिमा लिन्यमुखेनैव परिपोषणमिति तन्मुखप्रेक्षित्वात् तस्य गुणीभूतत्वमिति । आन्तरालिकन्यक्क्यापेक्षया गुणीमूतव्यङ्ग्यत्वम् , रसापेक्षया रसध्वनित्वमित्यवधेयम् ।
शब्दचित्रं वाच्यचित्रमव्ययं त्वयरं स्मृतम् ॥ (मू० का० ५, उ०) । अव्ययं चित्रमिति सामान्यलक्षणम् | शब्दचित्रं वाच्यचित्रमिति विभागः । चित्रमिति गुणालङ्कारयुक्तम् । यत्र तयोरेव प्राधान्येन चमत्कारकारित्वमित्यर्थः । अन्य स्फुटप्रतीयमानव्यानरहितम् । अवर अधमम् । तत्र शब्दचित्रमाह -
खच्छन्दोच्छलदच्छकच्छकुहरच्छातेतराम्बुच्छटा
मूर्छन्मोहमहर्षिहर्षविहितस्नानाहिकाऽहाय वः । भिन्यादुद्यदुदारदर्दुरदरी दीर्घाऽदरिद्रद्रुम
द्रोहोद्रेकमहोर्मिमेदुरमदा मन्दाकिनी मन्दताम् ॥ मन्दाकिनी वः युष्माकं अह्राय झटिति मन्दतां भिन्यादित्यन्ययः । खच्छन्दं स्वाधीनं न तु वातादिपरतत्रम् । उच्छलदित्यम्घुविशेषणम् । कच्छे जलसमीपे तरकैः खननात् यत्तुहरं बिलं छातमल्पं तदितरत् छटा परम्परा तया मूर्छन् प्रादुर्भवन् मोहो वैचित्यं विस्मयो वा येषाम् । दर्दुरः पर्वतविशेषः तस्य दर्या गुहायां दैर्ध्य यस्यास्तां मित्वा झटिति जलनिर्गमनेन दैर्य न तु तत्र तया जलस्थगनं तेन वेगातिशयः । केचित् तु 'मन्दाकिनी [प० ४.१ ] गा, दर्दुरो भेको न तु पर्वतविशेषः, तस्य दक्षिणदिगिरित्वेन गङ्गासम्बन्धाभावात्' इत्याहुः । अदरिद्राः परिणाहोच्छायादिवन्तः, द्रोहः पातनं उद्रेक आधिक्यं तन्मयास्तद्युक्ता ये तरङ्गाः त एव निबिडः स्निग्धो वा भदोऽहमारो यस्याः ।