________________
काव्यप्रकाशखण्डन
करणैर्यमा स्फोटव्यशब्दस्य ध्वनिरिति व्यवहारः कृतः, तथाऽन्यैरपि आलङ्कारिभिर्वाच्यव्यञ्जनक्षमस्य शब्दार्थयुगलस्य | अत्रेदं बोध्यम् । स्फुटयत्यर्थमिति स्फोटः । ननु शब्दात् कथं पदार्थवाक्यार्थधीः १. आशुविनाशिनां क्रमिकाणां मेलकाभावाद, आनुपूर्व्याः ज्ञातुमशक्यत्वाच्च । तेन च पूर्वपूर्ववर्णानुभवजनितसंस्कार सहकृतेन व्यन्तिमवर्णानुभवेन स्फोटो व्यज्यते । स च ध्वन्यात्मकः । शब्दो नित्यो ब्रह्मखरूपः सकलप्रत्यायन क्षमोऽश्रीक्रियते । तयकच वर्णात्मकः शब्दः । वृतिस्तु व्यञ्जनैव । तद्व्यञ्जकः शब्दो ध्वनित्वेन ब्यवद्दियत इति वैयाकरणमतम् । तदसत् । एवमन्तिमवर्णानुभवस्यैव पदार्थप्रतीतिक्षमत्वे आनुपूर्वज्ञानस्योपायसंभवेन किमन्तर्गडना स्फोटेन ।
नायकानयनाय प्रेषितां तं संभुज्य समागतां दूतीं प्रति काचित् स्वानकार्य प्रदर्शनमुखेन संभोगं प्रकाशयति -
निःशेषच्युतचन्दनं स्वनतटं निर्मृष्टरागोऽघरो
नेत्रे दूरमनने पुलकिता तन्वी तवेयं तनुः । मिथ्यावादिनि दति । बान्धवजनस्याज्ञातपीडागमा (मे १)
वा स्नातुमितो गताऽसि न पुनस्तस्याथमस्यान्तिकम् ॥
इदमुत्तमं काव्यम् । अस्यार्थः - दूतस्य मिध्याभाषणं स्वभावः इति दूति (ती). न तु सखी. सत्त्वे मत्प्रतारणं मत्प्रियसंभोगश्च न स्यात् । उद्देश्यकार्या निर्वाहकतया बान्धवजनस्य पीडा भवति तत्र जोनास । तस्य नीचाभिलाषित्वेन प्रसिद्धस्य अतः अधमस्य । नीच [१० ३.१] कार्यकर्तुः प्राधान्येन । अधमशब्दस्य पदान्तरापेक्षया झटिति प्रकृतार्थव्यञ्जकत्वेन प्राधान्यम् । अत्र स्तनतटं निःशेष ( च्यु) तचन्दनं न स्तनसन्ध्यादि तत्र तथाविधनायककरस्पर्शायोगात् । एवमधरः परौष्ठः, तत्र रागो निर्मृष्टः, न तु पूर्वोष्ठे, तत्र चुम्बन निषेधात् । एवं नेत्रमध्ये चुम्मननिषेधात् दूरतएव निरञ्जने । एतत् सर्वं रत एव संभवति न तु खाने । स्वानं वेत् सविच्छेदेनैव चन्दनच्यवनादि स्यात् । तथा च तथाविधचन्दनच्यवनादीनां रतैकसाध्यानां जानकार्यत्वबोधेन खातुं गताऽसीत्यत्र निषेधो न गताऽसीत्यत्र विधिश्व लक्ष्यते । न च निषेघे कथं लक्षणेति वाच्यम् । अन्यथाऽसंगत्या पत्तेः । रन्तुमिति प्रयोजनं चेत्याहुः । तन्न । तथाविधानामपि चन्दनच्यवनादीनां खानकार्यत्वं संभवत्येव । तथा हि- वापीं स्नातुं गताऽसि न तु गृहम् । एतच विशिष्य चापपदोपादानात् लक्ष्यते । तथा स्तनतट एव निश्शेषच्युतिर्म स्तनसन्ध्यादिषु। वापीतीरस्य जनसङ्कीर्णतया तथाविधमार्जनाभावाद्, गृह एव तत्संभवात् । तथा, पूर्वोष्ठस्य न्युब्जतया बहलजलसम्बन्धाभावात्, न तत्र निश्शेषरामच्युतिः । किन्तु अधर एष, उत्तानत्वेन बहलजलसम्बन्धात् । तथा, स्नानकाले मुद्रणात् नेत्रमध्ये नाव नराहित्यम्, किन्तु दूरत एव । इत्यादिरूपेण स्नानकार्यत्वस्य संभवात् बाधकाभावात् कथं लक्षणा ! नवीना (नस्तु वक्तृबोद्धव्यवैशिष्ट्यात् व्यज्ञनैव तदाह । तदन्तिकमेव रन्तुं गताऽसीति व्यज्यत इति । मिश्रास्तु 'न गताऽसीति नञि काकुः, न गताऽसि ? अपि तु गताऽस्येवेत्यर्थः ।