________________
-
--
काव्यप्रकाशखण्डन मुखादिकं चन्द्रत्यादिनैव वर्ण्यते नान्येनेति नियम[स्य] सत्त्वात् । 'अथ शब्दार्थों कान्य'मिस्युच्यते । अथें तु नित्यानित्यसाधारणे नादृष्टजन्यत्वमस्तीति चेन्न । अथें काव्यत्वस्य निराकरिष्यमाणत्वात् । 'हादैकमयी'मिति । इदमपि विरुद्धम् । अन्येषां भावानामिव काव्यस्यापि सुख-दुःख-मोहात्मकत्वस्य संभवात् । 'अनन्यपरतन्त्रा मिति । इदमपि न चारु । तथा हि मनान्यपदस्य भारत्यन्यत्वस्य वक्तव्यत्वे भारत्यन्यकवितत्प्रतिभादेः काव्ये कारणत्वसंभवात् । 'नवरसरुचिरा'[५० १.२ मिति । नवरसा चासौ रुचिरा चेति कर्मधारयः । वृत्तौ 'पोरसा हृद्या न तैरिति व्यक्तिद्वयदर्शनात् । अथवाऽस्तु तृतीयातत्पुरुषः । न च नवरसीति प्रयोगापत्तिः । त्रिभुवनमित्यादिप्रयोगवदस्यापि सिद्धेः । इदमप्यसाघीयः । बीभत्सादीनां रसत्वस्य निराकरिष्यमाणत्वात् । रसे नवत्वासंभवात् । अथ काव्यस्य फलम् - काव्यं यशसेऽर्थकृते व्यवहारविदे शिवतरक्षतये ।
सद्यापरिनिर्वृतये कान्तासम्मिततयोपदेशयुजे ॥ (मू० का० २) इदमप्युपलक्षणम् । काव्यस्य परमेश्वरस्तवादिरूपतया चतुर्वर्गस्यैव साधनत्वादिति ।
अथास्य कारणम् - .. ,शक्तिनिपुणता लोककाव्यशास्त्राद्यवेक्षणात् ।
काव्यज्ञशिक्षयाऽभ्यास इति हेतुस्तदुद्भवे ॥ (मृ• का० ३) अन्न तस्य काव्यस्य उद्वे निर्माणे समुल्लासे त्रयः शक्ति-निपुणताऽभ्यासा हेतुरित्युक्तम् । तदपि तुच्छम् । डिम्भादावपि काव्योद्भवदर्शनात् , शक्तेरेक हेतुत्वात् । अथास्य लक्षणम्
तददोषौ शब्दार्थों सगुणायनलती पुनः कापि । ( मू० का० ४, पू.) तथा च अदोषत्वे सति सगुणत्वे च सति स्फुटालङ्काररसान्यतरवत्त्वं काव्यत्वमिति फलितार्थः । 'कचित् तु स्फुटालङ्कारविरहेजपि न काव्यत्वहानिः ।' नोऽल्पार्थत्वात् । अस्पत्वस्य चात्रास्फुट एव विश्रान्तेः । स्फुटालकारविरहोदाहरणं यथा
यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपा
स्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः । सा चैवासि तथापि तत्र सुरतव्यापारलीलाविधी
- रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते । अनेन वाक्येन तत्रोपकान्तसमागमोऽपि ध्वन्यत इति केचित् । तन्न । स एव हि वर' इत्यनेन पुरुषान्तरनिषेधात् । निष्कारणकदोषोद्भावनस्य च प्रामाणिकानामसम्मतत्वात् । वयं
पर' इति मुद्रितपाठः। २ छोके शास्त्रकाव्याअवेक्षणा' इति मु. पा.. . . . .