SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ षडशीतिनामा चतुर्थः कर्मग्रन्थः धिके आयुष्यष्टौ, तस्मिन्नावलिकामात्रेतु सप्त कर्माण्युदीरयन्ति । मिश्रेऽष्टावेव तत्रमरणाभावादावलिकाधिकस्यैवायुषः सम्भवात् । अप्रमत्तादयस्त्रयो गुणा वेद्यायुर्वजानि षट्, वेद्यायुरुदीरणायाः प्रमत्तान्तत्वात् । सूक्ष्मः षट् पञ्च वा । मोहनीये आबलिकाशेषे पञ्चान्यदा षट् । उपशान्तमोहो मोहबर्जानि पञ्चैब । श्रीणमोह: पञ्च द्वे वा, तत्र ज्ञानाबरणदर्शनावरणान्तरायेष्वावलिकाशेषेषु द्वे, तदधिकेषु तु पञ्च । सयोगी तु द्वे नाम-गोत्रे । अयोगी त्वनुदीरकः ।।५९||६०।६१|| अथ गुणवर्त्तिनामल्पबहुत्वम् - थेव उवसंता। संखगुण खीण सुहुमा नियट्टिअपुब्द सम अहिया ।।६२॥ जोगि अपमत्त इयरे संखगुणा देससासणामीसा । अविरय अजोगिमिच्छा असंख चउरो दुवे णता ॥६३॥ थेव उव० इति समधिकगाथा । सर्वस्तोका उपशान्ता, उत्कर्षतोऽपि विवक्षितसमये प्रतिपद्यमानानां तेषां चतुःपञ्चाशत एव लभ्यमानत्वात् । तेभ्य: क्षीणमोहा: संख्येयगुणाः, उत्कर्षतस्तेषां प्रतिपद्यमानानां [एकस्मिन्]समयेऽष्टोत्तरशतसंख्यत्वात्, उत्कृष्टपदापेक्षमेतदन्यथा विपर्ययोऽपि, यथा सर्वस्तोका: क्षीणमोहाः, संख्येयगुणा उपशान्ता इति । तेभ्यः सूक्ष्मानिवृत्त्यपूर्वककरणास्त्रयोऽपि विशेपाधिका: स्वस्थाने मिथस्तुल्याः । तेभ्यः सयोग्यप्रमत्नप्रमत्तात्रयः प्रत्येकं संख्येयगुणा यथोत्तरं कोटीकोटीशत कोटीसहस्रपृथक्त्वेन प्राप्यमाणत्वात् । तेभ्यो देशविरता: सास्वादना मिश्रा अविरताश्च प्रत्येकमसंख्येयगुणा:, देशविरतिभाजां तिरश्चामसंख्येयत्वात्, सास्वादनास्तु कदाचिन्न भवन्त्येव यदि स्युस्तदा जघन्यत एको द्वावुत्कर्षतो देशबिरतेभ्योऽसंख्येयगुणा: । सास्वादनस्य षडावलिकारूपाद्धाया आन्तर्मुहूर्तिकमिश्राद्धाया असंख्येयगुणत्वात्, नेभ्यो मिश्रा असंख्येयगुणा:, तेभ्योऽविरता असंख्येयगुणास्तेषां चतुर्गतिकानामपि भावात् । अविरतेभ्योऽयोगिनोऽनन्तगुणाः, अयोगिषु सिद्धानां क्षेपात् । तेभ्योऽपि मिथ्यादृष्टयोऽनन्नगुणाः, तत्र वनस्पत्यानन्त्यक्षेपात् ॥६२।६३॥ अथ भावानाह -
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy