________________
गुणरत्नसूरिविरचित-अवचूर्युपेतः णनिषेधात्, तद्भावभाविनां मिश्रद्विककार्मणानां सास्वादनान्तबन्धोदयानां चाऽनन्तानुबन्धिनां नत्रासम्भवान् । नथाऽविरते सैव ४३, प्राग्वर्जितमिश्रद्वयकार्मणयुताः ४६, अविरतस्यान्तरालगतावपर्याप्तावस्थायां च यथासम्भवं तदुपपत्तेः । एकां त्रसबधरूपामविरतिं कार्मणौदारिकमिश्री द्वितीयकषायांश्चेति सप्त मुक्त्वा देशविस्तौ शेषा: ३९ । 'अविरइइगारतिकसायवज्ज' ति उत्तरगाथावयवस्येह सम्बन्धादेकादशाऽविरतीढेितीयकक्षायांश्च मुक्त्वाऽऽहारकद्रिकसहिनाः प्रमत्ते २६ । अप्रमत्ते सैवाहारकमिश्र-वैक्रियमिश्रवर्जाः, लब्ध्युपजीवनेन त्वाहारकरक्रियकरणासम्भवात् पूर्वकृततद्भावाच्च २४ । अपूर्वे पूर्वकृतयोरपि तयोरभावात् २२ । अनिवृत्तिबादरे हास्यषकाऽनुदयात् नद्वर्जाः १६, वेदत्रयसंज्वलनत्रयानुदयान्सूक्ष्मे १० । उपशान्तक्षीणयोस्त एवं लोभवर्जा: २ । सयोगिनि औदारिकनन्मिश्रकार्मणाद्यन्निममनोवाग्योगरूपाः ७ । अयोगिनि सर्वबन्धप्रत्ययाभावः ||५४||५५।१५६/५७/५८||
अथ गुणेषु बन्धोदयादिविधि: - अपमत्तंता सत्तट्ट मीसअपव्वबायरा सत्त। बंधइ छस्सुहुमो एगमुवरिमाऽबंधगाऽजोगी ॥५९ आसुहुमं संतुदए अट्ठ वि मोह विणु सत्त खीणम्मि । चउ चरिमदुगे अट्ठ उ संते उपसंति सत्तुदए ॥६॥ उइरंति पमत्तता सगट्ठ मीसट्ट वेयआउ विणा। छग अपमत्ताइ तओ छ पंच सुहुमो पणुवंसतो ॥६१॥ पण दो खीण दु जोगी णुदीरगु अजोगि
अपः आसु० उइ० मिथ्यात्वादयोऽप्रमत्तान्ता आयुर्बन्धकालेऽष्टौ, शेषकालं सप्त कर्माणि बघ्नन्ति । मिश्रोऽपूर्वानिवृत्तिबादरौ चाऽऽयुषोऽबन्धात् सप्त । सूक्ष्मे मोहस्याप्यबन्धात् षट् । उपरितनाः सयोग्यन्तात्रय एकं सातमेव बध्नन्ति । अबन्धकस्त्वयोगी । सूक्ष्मं यावदष्टावपि कर्माणि सत्तायामुदये च प्राप्यन्ते । क्षीणे मोहवर्जानि सप्त । चरणगुणद्वये सयोग्ययोगिरूपे वेदनीयायुर्नामगोत्रलक्षणानि चत्वारि । उपशान्तेऽष्टौ नियमान् सत्तायां, मोहवर्जानि सप्तोदये । मिथ्यात्वादयः प्रमत्तान्ता आवलिका