________________
षडशीतिनामा चतुर्थः कर्मग्रन्थः मिथ्यात्वसयोगिगुणं यावत् तद्वन्धात् । नरकत्रिकादिषोडशप्रकृतयो मिथ्यात्वप्रधानप्रत्यया:, मिथ्यात्वाभावे तद्वन्धाभावात् । सास्वादनव्यवच्छिन्नपञ्चविंशतिरविरतव्यवच्छिन्नदशप्रकृतयश्च मिथ्यात्वाविरतिप्रधानप्रत्ययाः, तयोरुदये तद्भन्धादनुदये चाबन्धात् । उक्तव्यतिरिक्ता आहारकद्विकजिनवर्जा; शेषाः ६५प्रकृतयो मिथ्यात्वाविरतिकषायरूपत्रिप्रत्ययाः, मिथ्यात्वात्सूक्ष्ममपि यावत् तद्वन्धात्, परतस्त्वेतत्रयाभावे योगसद्भावेऽपि तदबन्धात्, उपशान्तमोहादिषु केवलयोगवत्सु योगसद्भावेऽप्यासां बन्धो नास्तीति योगप्रत्ययो न विवक्ष्यते । 'सम्मत्तगुणनिमित्तं नित्ययरं संजमेण आहार' [बृ०श० गा०४५] इति वचनादेनत्प्रकृतित्रयं विशेषगुणप्रत्ययमिति तदर्जनम् । एतेनोत्तरप्रकृतिषु मूलबन्धप्रत्ययाश्चिन्तिताः ।।५३||
अथ गुणेषु तदुत्तरभेदाश्चिन्त्यन्ते - पणपन्न पन्न तियछहिय चत्त गुणवत्त छचउदुगवीसा। सोलस दम नव नव सन्न हेजणो न र अजोगिम्मि !!५४॥ पणपन्न मिच्छि हारगदुगूण सासाणि पन्न मिच्छ विणा । मिस्सदुगकम्मअण विणु तिचत्त मीसे अह छचत्ता ॥५५॥ सदुमिस्सकम्म अजए अविरयकम्मुरलमीसबिकसाए । मुसु गुणवत्त देसे छवीस साहारदु पमत्ते ॥५६॥ अविरइ इगार तिकसायवज्ज अपमत्ति मीसदुगरहिया । चवीस अपुब्वे पुण दुबीस अविउब्वियाहारा ॥५७॥ अछहास सोल बापरि सुहुमे दस वेयसंजलणति विणा । खीणुवसंति अलोभा सजोगि पुवुत्त सग जोगा ॥५८॥
पणपन्न इत्यादि गाथापञ्चकम् । सर्वसंख्यया ५७, बन्धप्रत्ययोत्तरभेदानां मध्यान्मिथ्यात्वे आहारकद्विकोना ५५ । मिथ्यात्वपञ्चकवर्जा: सास्वादने ५०, मिथ्यात्वस्य मिथ्यात्व एव स्थितत्वात् । औदारिकमिश्रवैक्रियमिश्रकामणानन्तानुबन्धिचतुष्कवर्जाः शेषा मिश्रे ४३, मिश्रस्य कालकर