SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ गुणरत्लरिविरचित-अवचूर्युपेतः छसु सव्वा तेउतिगं इगि छसु सुका अजोगि अल्लेसा। बंधस्स मिच्छअविरइकसायजोग ति चउ हेऊ ॥५०॥ छसु० षट्मु प्रमत्तान्तेषु गुणेषु सर्वा अपि कृष्णादयो लेश्या: । तथैकस्मिन्नप्रमत्ते तेजोलेश्यादित्रयम् । षट्मु अपूर्वादिषु सयोग्यन्तेषु शुक्लैव । अयोगिनस्त्वलेश्या: ।।५०|| अथ बन्धस्य मिथ्यात्वाविरतिकषाययोगा इति चत्वारो हेतवः प्रोच्यन्ते - अभिगहियमणभिगहियाभिनिवेसिय संसइयमणाभोग। पण मिच्छ बार अविरइ मणकरणानियमु छजियवहो ॥५१॥ नव सोल कसाया पन्नर जोग इय उत्तरा उ सगवन्ना । अभिः नवः आद्यं सौगतादीनाम्, द्वितीयं गोपालादीनाम्, तृतीयमभिनिविष्टानां गोष्ठामाहिलादीनामिव, सांशयिकं सन्देहजनितम्, अनाभोगमेकेन्द्रियाणाम् । अविरतिर्मनस: पञ्चेन्द्रि. याणां वानिग्रहात् पड्जीववधाच्च द्वादशधा । शेष स्पष्टमेव । ।।५१|| उत्तरभेदाः ५७ । अथ गुणेषु बन्धस्य मूलहेतवः – इगचउपणतिगुणेसुं चउतिदुइगपच्चओ बंधो ॥५२॥ इगत्ति । एकस्मिन् मिथ्यात्वगुणे चतुःप्रत्ययो बन्धः, मिथ्यात्वादीनां चर्तुणामपि प्रत्ययानां तत्र भावात् । सास्वादनादिचतुष्के तु त्रिप्रत्ययः, तत्र मिथ्यात्वस्य मिथ्यात्व एवावस्थितत्वात् । प्रमत्तादिपञ्चके द्विप्रत्ययो, मिथ्यात्वाविरत्यभावात् । उपशा न्तादित्रिके कषायाणामप्यभावात्केवलयोग- प्रत्ययः ॥५२॥ चउमिच्छमिच्छअविरइपच्वइया सायसोलपणतीसा। जोग विणु तिपच्चझ्याऽऽहारगजिणवज्ज सेसाओ ॥५३॥ चउ० एका सातलक्षणा प्रकृतिर्मिथ्यात्वाविरतिकषापयोगैर्बध्यमानत्वाच्चतुःप्रत्यया,
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy