SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ षडशीतिनामा चतुर्थः कर्मग्रन्थः चेति पञ्चांगयोगाः । अविरते देशविरतें च मतिश्रुतावधिज्ञानचक्षुरचक्षुरवधिदर्शनरूपाः षट् । ते षडपि मिश्रे व्यामिश्रा, अत्र हि ज्ञानांदास्याज्ञानमिश्रत्वात् । प्रमत्तादौ क्षीणमोहान्ते [ षु ] ते पूर्वोक्ताः षट् मनः पर्यायसहिताः सप्त । सयोगिन्ययोगिनि च केवलज्ञानं केवलदर्शनं चेति द्वयम् ||४८|| साम्प्रतं सूत्रेऽभिहितमपि यदिह नोपान्तं तदाह सासणभावे नाणं विउब्वगाहारगे उरलमिस्सं । नेगिंदिसु सासाणो नेहाहिगयं सुयमपि ॥ ४९ ॥ - सासण● 'बेंदिआणं भंते किं नाणी अन्नाणी ? गोअमा ! नाणी वि अन्नाणी वि जे नाणी ते नियमा दोनाणी-मड़नाणी सुअनाणी । जे अनाणी ते वि निअमा दुअनाणी - मइअनाणी सुअअनाणी | [वि०प०० ८। ३०२ | सू०३३ [१] तथा बेंदिअस्स दो नाणा कहं लब्धंति ? सासायणं पडुच्च भन्नइ' [ ] इत्यादिना सिद्धान्तोक्तमपि सास्वादनभावे ज्ञानं नाधिकृतं तस्य मिथ्यात्वाभिमुखतया तत्सम्यक्त्वस्य मलीमसत्वेन ज्ञानस्यापि मलीमसत्वादज्ञानतेति हेतोः कार्मग्रन्थिकैरिति सम्भाव्यते । 'विउव्वगाहारगे उरलमिस्सं' ति वैक्रिये आहारके चारभ्यभाणौदारिकस्य नन्मिश्रतयौदारिकमिश्रयोग इति सूत्रे प्रोच्यते, कार्मग्रन्थिकैस्तु तयोरारम्भ- त्यागकाले च तयोरेव प्राधान्यविवक्षया मिश्रत्वं, नौदारिकस्येति युक्त्यौदारिकमिश्रं सूत्रोक्तमपीह नाधिक्रियते । तथा 'एगिंदियाणं पुच्छा । गोअमा ! नो नाणी नियमा अन्नाणी [वि०प०श० ८ |०२|०४५] इत्यादिना सूत्रे एकेन्द्रियाणां सास्वादनभावो निषिध्यते, कार्मग्रन्थिकैस्व तन्निषेधो नाधिकृत इति ॥८९॥ अथ गुणेषु लेश्या: १- बेई वाणं पुच्छा। गोयमा ! गाणी वि, अण्णाणी दि जे नाणी ते नियमादुष्णाणी, तं जहा आभिणिबीहिपाणी सुपाणी य। जे गाणी ते नियमा दुअगाणी आभिणिबोयिभागी व सुयअणाणी य। इति श्रीमहावीर जैन विद्यालयप्रकाशितविवाहनिंपुस्तके प्रथमे नागे पृ. ३३८ मध्ये | २ उक्तं च प्रज्ञापनाटीकायाम् 'बेईदियरस दो नाथा कहूं मंति ? सासायणं पडुब नस्सापज्जतयरस दो नाणा लब्धंति इति । इति वृद्धत्ती । ३- ८ सिंदिया णं भंते! जीवा किं नागी ? जहा पुढविक्काइया । इति श्रीमहावीरजेन विद्यालयप्रकाशित विवाहपतिसुतं पुस्तके प्रथमे भागे पृ० ३३९ मध्ये |
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy