________________
गुणरत्नसूरिविरचित-अवचूर्युपेतः
जवसमखयमीसोदयपरिणामा द नव ठार इगवीसा। तियभेय सन्निवाइय सम्मं चरणं पढम भावे ॥६४॥ बीए केवलजुयलं सम्मं दाणाइलद्धि पण चरणं । तइए सेसुवओगा पण लद्धी सम्म विरइदुगं ॥६५॥ अन्नाणमसिद्धत्तासंजमलेसाकसायगइयेया। मिच्छं तुरिए भन्वाभवत्तजियत्तपरिणामे ॥६६।
उव० बीए० अन्ना० औपशमिकक्षायिकक्षायोपशभिकोदयिकपारिणामिकास्तावन् पञ्च भावाः क्रमेण द्विनबाष्टादौकविंशतित्रिभेदा: । नेपां व्यादिसंयोग पष्ठ: सान्निपातिको भावः । तत्राद्ये औपशमिके भावे प्रथमसम्यक्त्वोत्पत्तिकाले उपशमश्रेण्यां वा औपशमिकं सम्यक्त्वं चारित्रं चेति भेदद्वयम् । द्वितीये क्षायिके केवलद्विकं नायिकं सम्यक्त्वं दानादिलश्चिपञ्चकं चारित्रं क्षायिक चेति नव भेदा: । तृतीये शेषोपयोगा: मतिश्रुतावधिमनःपर्यायरूपाः ४, अज्ञानत्रय३दर्शनत्रय३रूपा: १०, दानादिलब्धिपञ्चक सम्यक्त्वं देश-सर्वबिरती चेति १८ । एषां कर्मक्षयोपशमवैचित्र्येण विचित्रतथा कस्यापि कथञ्चिदत्पादात् । तथाऽज्ञानमसिद्धत्वमविरनिरूपोऽसंयमो लेश्याषटकं कषायचतुष्कं गतिचतुष्कं वेदनयं मिथ्यात्वं चेत्येकविंशतिरूपास्त्वौदयिक भावे भवन्ति । एषां खुदयेन जीवानां तथा तथा परिणमनात् । तथा भव्यत्वमभव्यत्वं जीवत्वं चेति त्रयो भेदा: पारिणामिके भावे । एषामित्थमेव सदा परिणामात् । न हि भव्योऽभव्यत्वमभव्यो भव्यत्वं जीवोऽजीवत्वमजीबो जीवत्वं कदाचित् परिणमनि ६४॥६५॥६६॥
अथैषामबैक द्विकादिसंयोगतो निष्पन्नानां सर्वसंख्यया २६ सान्निपातिकभेदानां सम्भवासम्भवमाह -
चउ चउगईसु मीसगपरिणामुदएहिँ चउ सखइएहिं । उवसमजुएहिँ वा चउ केवलि परिणामुदयखइए ॥६॥ खयपरिणामे सिद्धा नराण पणजोगुवसमसेढीए । इय पनर सन्निवाइयभेया वीसं असंमविणो ॥६८॥ चउ० गतिचतुष्टयापेक्षया चत्वार: सान्निपातिकभेदाः । 'मीसग'त्ति क्षायोपशमिका