________________
षडशीतिनामा चतुर्थः कर्मग्रन्थः नामसंख्येयगुणत्वात् । ततोऽपि केवलदर्शनिनोऽचक्षुर्दर्शनिनश्च प्रत्येकमनन्तगुणा:, सिद्धानां संसारिणां च तद्रतां यथोत्तरमनन्तगुणत्वात् ॥४१||४२।।
पच्छाणुपुब्बि लेसा थोवा दो संख णंत दो अहिया। अभवियर थोव गंता सासण थोवोवसम संखा ॥४३॥ मीसा संखा वेयग असंखगुण खड्य मिच्छ दु अणंता । सन्नियर थोव णंताऽणहार थोवेयर असंखा ॥४४॥
पच्छा. मीसा० शुक्ललेश्यावन्तः स्तोका, लान्तकायनुत्तरान्तदेवानां [केषाञ्चिन्मनुध्यतिरश्नांच] तद्भावात् । तत: पद्मलेश्यावन्त: तेजोलेश्यावन्तश्च प्रत्येकमसंख्येयगुणास्तद्वतामधोऽधोवर्तिदेवानामसंख्येयगुणत्वात् । ततः कापोतलेश्यावन्तोऽनन्तगुणा:, अनन्तकायेष्वपि तस्या भावात् । ततोऽपि नीललेश्यावन्तो विशेषाधिका नारकक्षेपात् । ततोऽपि भूयस्त्वेन कृष्णलेश्यावन्तोऽधिकाः । अभव्या: स्तोका: जघन्ययुक्तानन्तकतुल्यत्वात् तेषां, ततो भव्या अनन्तगुणा बृहत्तरानन्तकतुल्यत्वात् । स्तोका: सास्वादना: केषाश्चिदेवीपशमिकसम्यक्त्वात् प्रतिपततां तद्भावात्, ततोऽप्यौपशमिकसम्यग्दृष्टयः संख्येयगुणा:, उपशमश्रेणिकृ(ब)तां औपशमिकसम्यकत्वाच्छुद्धपुञ्जगामिनां च बहुत्वात् ।।४३||
ततोऽपिमिश्रा: संख्येयगुणाः, ततोऽपिवेदकाअसंख्येयगुणाः, ततोऽपि सिद्धक्षेपात्क्षायिका अनन्तगुणास्ततोऽपि मिथ्यादृष्टयोऽनन्ताः, अनन्तवनस्पतिक्षेपात् । तथा संज्ञिन: स्तोकास्तेभ्योऽप्पनन्तवनस्पतिक्षेपादसंज्ञिनोऽनन्तगुणाः । तथाऽनाहारकाः स्तोकाः, सिद्धादीनामनाहारकत्वेनाहारका. घनन्तवनस्पत्यपेक्षया स्तोकत्वान, तेषामितरे आहारका असंख्येयगुणा, न पुनरनन्तगुणा, एकैकनिगोदापतिसमयमसद्ध्येयभागस्य विग्रहगत्यापनतयाऽनाहारकत्वेन लभ्यमानत्वात् ।।४४||
अथ गुणेषु जीवस्थानानि -
१- ततस्तेजोलेश्यावन्तः पयलेश्पावन्तश्च-हेला । २-८नारकादिक्षेपान्-पा । ३-उपवामसम्पक्स्पवताम्-पाः | ४- तेभ्यश्रीपसमिकसम्पदृष्टिभ्यो मिश्रा असश्चातगणा:-न।