________________
गुणरत्नसूरिविरचित- अवचूर्युपेतः
मणवयणकायजोगी थोवा असंखगुण अनंतगुणा | पुरिसा थोवा इत्थी संखगुणाऽणंतगुण कीवा ॥ ३९ ॥
म० सुगमा ||३२||
माणी कोही माई लोही अहिय मणनाणिनो धोवा । ओहि असंखा मसु अहिय सम असं विभंगा ||४०||
माणी० सर्वस्नोका मानिनः, तत्परिणामकालस्य क्रोधपरिणामकालापेक्षयाऽतिस्तोक
१
त्वात् 1 मन:पर्ययज्ञानिनोऽतिस्तोका विशिष्टयतीनामेव तदुत्पादात् । तेभ्योऽवधिज्ञानिनोऽसंख्येयगुणास्तत्र तद्वतां देवनारकाणामपि क्षेपात् । तेभ्यो मतिश्रुतज्ञानिनो विशेषाधिकाः, मतिश्रुतयोरवधिवत्सु तद्रहितेषु च भावात्, स्वस्थाने तु परस्परं तद् द्वयेऽपि तुल्याः । तेभ्यो विभङ्गज्ञानिनोऽसंख्यगुणाः, तद्वतां मिथ्यादृष्ट्यादीनां तेभ्योऽसंख्येयत्वात् ||४०||
केवलणो णंतगुणा मसुयअन्नाणि पंतगुण तुला | सुहुमा धोवा परिहार संख अहखाय संखगुणा ॥४१॥
छेय समईय संखा देस असंखगुण णंतगुण अजया । धोव असंख दु णंता ओहि नयण केवल अचक्खू ॥४२॥
केव० छेय. केवलिनोऽनन्तगुणा: सिद्धानामपि तत्र क्षेपात् । तेभ्योऽपि मति - श्रुताऽज्ञानिनोऽनन्तगुणास्तद्वतः शेषजीवानन्तकस्य तत्र क्षेपात् । स्वस्थाने द्वावपि समौ । सर्वस्तोकाः सूक्ष्मसम्परायणः । ततः परिहारविशुद्धिकयथाख्यातच्छेदोपस्थापनीयसामायिकवन्तः प्रत्येकं संख्येयगुणा:, यथोत्तरं शत - सहस्र- कोटि-कोटिशत- कोटिसहस्र पृथक्त्वेन प्राप्यमाणत्वात् । ततो देशविरता असंख्येयगुणास्तद्वतामसंख्येयतिरवां भावात् । तेभ्योऽप्यविरता अनन्तगुणा, मिथ्यादृष्ट्यादीनामविरतानामनन्तगुणत्वात् । अबधिदर्शनिनः स्तोकारतेभ्योऽपि चक्षुर्दर्शनिनोऽसंख्येयगुणास्तद्वतां चतुरिन्द्रियादी
१. क्रोधदिपरि० पा० ।