SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ षडशीतिनामा चतुर्थः कर्मग्रन्थः योगाः । अज्ञानद्वयं चक्षुरचक्षुर्दर्शने चेत्युपयोगाश्वत्वारः । केवलकाययोगे पर्याप्तापर्याप्तसूक्ष्मबादरसत्कं जीवस्थानचतुष्कम्, आद्यं गुणस्थानद्वयं, योगा: कार्मणौदारिकौदारिकमिश्रवैक्रियवैक्रियमिश्ररूपाः पश्च, अज्ञानद्वयमचक्षुर्दर्शनं चेति त्रय उपयोगाः ॥३५|| अध मार्गणास्थानेषु लेश्या: ...छसु लेसासु सठाणं एगिदि असन्नि भूदगवणेसु । पढमा चउरो तिन्नि उ नारयविगलग्गि पवणेसु ॥३६॥ छसु० षट्सु लेश्यासु स्वस्वस्थानम्, यथा कृष्णायां कृष्णा इत्यादि । असंज्ञिग्रहणेन संज्ञिवर्जानां सर्वेषामपि संगृहीतत्वात्, यथा देवादिप्राग्भवलेश्यैकेन्द्रियाणां तेजोलेश्या तथाऽसंशिष्वपि, नारकेषु यल्लेयात्रयमुक्तं तद्रव्यलेश्यापेक्षया, भावपरावृत्त्या तु तेषां षङ्लेश्यत्वमप्येवमन्यत्रापि यथासम्भवं वाच्यम् ||३६।। अहखाय सुहुम केवलदुगि सुक्का छावि सेसठाणेसु। नरनिरयदेवतिरिया थोबा दु असंखऽणंतगुणा ॥३७॥ अह. शेष ४१मार्गणास्थानेषु षडपि लेश्याः । अथ मार्गणास्थानेष्वल्पबहुत्वम्, सर्वस्तोका मनुष्या, उत्कर्षतोऽपि तेषां गर्भजानां संख्येयत्वात्, तेभ्यो नारका असंख्येयगुणाः, नेभ्योऽपि देवा असंख्येयगुणाः, ततोऽपि तिर्यञ्चोऽनन्तगुणाः ॥३७॥ पण चउ ति दु एगिंदी थोवा तिन्नि अहिया अणंतगुणा । तस थोव असंखऽग्गी भूजलनिल अहिय वणणंता ॥३८॥ पण चउ० अत्रोक्तम् – 'थोवा तसा य ततो तेज [अ] संसा तओ विसेसहिआ। कमसो भूदगवाऊ अकायहरिआ अणंतगुणा' । [जीव० गा० २७६ ] अकाया: = सिद्धाः ॥३८||
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy