________________
५२
गुणरत्नसूरिविरचित- अवचूर्ण्यपेतः
केवल दुगे नियदुगं नव तिअनाण विणु खइय अहखाए । दंसणनाणतिगं देसि मीसि अन्नाणमीसं तं ॥३३॥
केवलः केवलद्वि निजद्विकं फैजलशान निरनुयोगद्व·१५ : क्षायिके यथाख्याते बाऽज्ञानत्रिकवर्जा नव । देशविरती मत्यादिज्ञानत्रयं चक्षुरचक्षुरवधिदर्शनं चेति षट् । मिश्रे पुनस्तदेव दर्शनज्ञानत्रिकमज्ञानमिश्रम् ||३३||
मणनाणचक्खुवज्जा अणहारे तिन्नि दंसण च नाणा | चनाणसंजमोसम वेयगे ओहिदंसे य || ३४ ||
मणनाणः अनाहारके मन: पर्यायचक्षुर्दर्शनवर्जा दश, अन्तरालगतिसमुद्घातावस्थाभावि - नोऽनाहारकस्य मनः पर्याय चक्षुरुपयोगाभावात् । दर्शनत्रयं ज्ञानचतुष्कं चेति सप्तोपयोगा: केवल [ज्ञानवर्ज]ज्ञानचतुष्टये, यथाख्यातबर्जसंयमचतुष्के औपशमिके वेदकेऽवधिदर्शने चेति ||३४||
अथ मतान्तरेण मनोयोगादिषु जीवस्थानगुणस्थानयोगोपयोगाश्चिन्त्यन्ते -.--.
दो तेर तेर बारस मणे कमा अट्ठ दु च च वयणे ।
चउ
पण तिन्निकाए जियगुणजोगोवओगन्ने ॥ ३५ ॥
दो तेर० प्राधान्येन विवक्षिते केवल मनोयोगे पर्याप्तापर्याप्तसंज्ञिरूपं जीवस्थानद्वयं, यद्यप्यपर्याप्ते मनोयोगो नास्ति तथापि तस्य तल्लब्धिकत्वाद् 'भाविनि भूतवदुपचार' [ न्याय०९ ]न्यायेन तद्विवक्षा । एवमुत्तरत्रापि । गुणस्थानानि त्रयोदशाऽयोगिनि मनोयोगाभावात् । कार्मणौदारिकमिश्रवर्जा योगास्त्रयोदश, कार्मणौदारिकमिश्रयोरपर्याप्तवस्थायां समुद्धातावस्थायां च सम्भवस्तदानीं च मनसोऽभावः, समुद्घात. मपि यदा विधत्ते तदा मनोवश्वसी न व्यापारयति प्रयोजनाभावादिति तदापि मनोयोगे कार्मणौदारिकमिश्राभावः 1 उपयोगास्तु द्वादशापि । मनोरहिते वाग्योगे तु पर्याप्तापर्याप्तद्वि-त्रि- चतुरन्द्रियासंज्ञिनामष्टौ जीवस्थानानि । संज्ञिजीवस्थानद्वयं तु केवलबाग्योगे न सम्भवति, संज्ञिनां मनः पूर्वकत्वाद् वाग्योगस्य । तथा मिथ्यात्व-सास्वादनरूपं गुणस्थानद्वयं । योगाः कार्मणौदारिकमिश्रौदारिकासत्यामृषावागूरूपा