________________
षडशीतिनामा चतुर्थः कर्मग्रन्थः
मणवइजरला परिहारि सुमि नव ते उ मीसि सविउव्वा । देसे सविरब्बिदुगा सकम्मुरलमिस्स अहक्खाए ॥२९॥
मणबइ. परिहार-सूक्ष्मयोः ४ मनोयोगाः, ४ वाग्योगाः, औदारिकं चेति नव । मिश्रेते नव वैक्रियसहिता दश, मिश्रस्याल्पकालभावितया वैक्रियारम्भत्यागाद्यसम्भवेन वैक्रियमिश्रासम्भवः । देशविरतौ त एव नव वैक्रियतन्मिश्रसहिता एकादश । ते पूर्वोक्ता नव यथाख्याते समुद्रातावस्थाभाविकार्मणौदारिकमिश्रसहिताः ११ ॥ २९ ॥
अथ मार्गणास्थानेषूपयोगा: - तिअनाण नाण पण चउ सण बार जिय लक्खणुवओगा। विणु मणनाण दुकेवल नव सुरतिरिनिरयअजएसु ॥३०॥
त्तिअनाणः तत्राऽज्ञानत्रिकं ज्ञानपञ्चकं दर्शनचतुष्कं चेति द्वादश जीवलक्षणरूपा उपयोगाः । तत्र सुरतिर्यग्नरकाविरतेषु मन:पर्याय-केवलद्विकरहिता नवोपयोगा:, एषु मन:पर्यापाद्यभावात् ||३०||
तस जोय वेय सुक्काहार नर पणिंदि सन्नि भवि सव्वे । नयणेयर पण लेसा कसाइ दस केवलदुगुणा ॥३१॥
तस० सयोगत्रयवेदत्रयादिके संज्ञिभव्यावसाने स्थानत्रयोदशके सर्वेऽप्युपयोगाः । 'नयणेयर'त्ति चक्षुरचक्षुः, शेषलेश्यापञ्चककषायचतुष्केषु केवलद्विकवर्जा दश ||३१||
चरिंदि सन्नि दुअनाणदंस इग बि ति थावरि अचक्खू । तिअनाण दसणदुगं अनाणतिग अभवि मिच्छदुगे ॥३२॥
चउ० चतुरिन्द्रियोऽसंज्ञिनि वाऽज्ञानद्वयं चक्षुरचक्षुर्दर्शनद्वयं चेति ४ । त एव चक्षुर्दर्शनरहितास्त्रय:- एक द्वि-त्रीन्द्रियेषु स्थावरपञ्चके बा । अज्ञानत्रिकाऽभव्यमिथ्यात्वसास्वादनेष्वज्ञानत्रिकं दर्शनद्विकं चेति पञ्च {|३२||