________________
पडशीतिनामा चतुर्थः कर्मग्रन्थः
___ मणनाणि. मन:पर्याये 'जयाइ'त्ति प्रमनादीनि सप्त, सयोग्यादौ नदव्यापारात् । सामायिकच्छेदयोः प्रमनादीनि चत्वारि । परिहारविशुद्धे प्रमत्ताप्रमत्ते द्वे । केवलद्रिकेऽन्त्यगुणद्वयम् । मति-श्रुतावधिद्विकेऽविरतादीनि नव ||२१||
अड उपसमि चर वेयगि खइगे इकार मिच्छतिगि देसे । सुहुमे य सठाणं तेर जोग आहार सुक्काए ॥२२॥
अड० औपशमिकेऽविरतादीन्येवाष्टौ, क्षीणमोहे क्षायिकभावात् । वेदके क्षायोपशमिके. ऽबिरतादीनि चत्वारि । नायिकेऽविरतादीन्येकादश । मिथ्यात्व-सास्वादन-मिश्र देशविरति-सूक्ष्मेषु निजनिजं गुणस्थानं वाच्यम् । योगत्रिकाहारकशुक्ललेश्यासु त्रयोदशायोगिनि तेषामभावात् ।।२२।।
असन्निसु पढमदुगं पढमतिलेसासु छच्च दुसु सत्त । पढमंतिमदुगअजया अणहारे मग्गणासु गुणा ।।२३॥
असन्निमुः असंज्ञिष्वाद्यद्वयम् । प्रथमलेश्यावये षट् प्रमत्तान्नानि । तेज:पद्मयोरप्रमत्तान्तानि सप्त । आद्यद्वयं =मिथ्यात्व-सास्वादनरूपम्, अन्तिमद्वयं-सयोग्ययोगिरूपम्, अविरतश्चेति पश्चानाहारके, सयोगी समुद्धातावस्थायामनाहारकः, अयोगी योगरहितत्वेनौदारिकादिशरीर. परिपोषकपुद्गलग्रहणाऽभावादनाहारकः, शेषाणि तु विग्रहाताविति ||२३||
अथ मार्गणास्थानेषु योगा: --... सच्चेयर मीस असच्चमोस मणवय विउब्धियाहारा। उरलं मीसा कम्मण इय जोगा कम्ममणहारे ॥२४॥
सच्चेयर० सत्यादिमनांसि ४, सत्यादिवचांसि ४, औदारिकौदारिकमिश्री २, वैक्रियं तन्मिश्रम् २, आहारकं तन्मिश्रम् २, कार्मणं चेति । तत्रानाहारके एक: कार्मणयोगो विग्रहगतिभावी ॥२४॥