________________
षडशीतिनामा चतुर्थः कर्मग्रन्थः
आहारेयर० 'सम्मत्ततिग'त्ति क्षायिकक्षायोपशमिकवेदकरूपे । केचिदौ पशमिकेऽप्यपर्याप्तसंज्ञिनमिच्छन्ति, तन्नावगम्यते, प्रथमं हि सम्यक्त्वमत्राऽपर्याप्तस्य तथाविशुद्धेरभावान्न घटते, उपशमश्रेणावपि मृत्वा सुरेषूत्पद्यमानस्याद्यसमय एव सम्यक्त्वपुद्गलवेदनात् तन्नोपपद्यते, यदुक्तं शतकहाँ जो इनामतीय का करे तो समये एवं उदयावलियाए छोद्ण सम्पत्तपुमालं आएइ, तेण उक्समसम्मदिवी अपजत्नगोन लगभई ।'[ ]तत: सुरनारकादौ मार्गणास्थानोत्तरभेदत्रयोदशके पर्याप्तापर्याप्तसंज्ञिरूपं जीवस्थानद्वयम् ॥१५॥
तमसन्निअपज्जजुयं नरे सबायरअपज्ज तेऊए।। थावर इगिदि पढमा चउ बार असन्नि दु दु विगले ॥१५॥
तमसन्निः तदेव पूर्वोक्तं संज्ञिद्विकं नरगतावपर्याप्ताऽसंज्ञिमनुष्ययुतं जीवस्थानत्रयं असंज्ञिनृणां, लब्ध्यपर्याप्तत्वात् । तदेव संज्ञिद्रिकमपर्याप्तबादरैकेन्द्रिययुतं तेजोलेश्यायाम् । पृथ्व्यादिस्थावरपञ्चके पर्याप्तापर्याप्तसूक्ष्मबादरसत्कं जीवस्थानचतुष्कम् । एवमेकेन्द्रियेऽप्यसंज्ञिनि पर्याप्तापर्याप्तसंज्ञिवर्जशेषजीवस्थानानि १२ । द्वीन्द्रियादिषु प्रत्येकं पर्याप्तापर्याप्तरूपे द्वे द्वे ॥१५॥
दस चरम तसे अजयाहारग तिरि तणु कसाय दु अनाणे। पढमतिलेसा भरियर अचक्खु नपु मिच्छि सब्बे वि ॥१६॥
दस त्रसकापे आद्यचतुष्करहितानि दश, अयतादिष्वष्टादशसु मार्गणास्थानेषु सर्वव्यापित्वेन सर्वजीवस्थानानि ।।१६।।
पजसन्नी केवलदुगे संजय मणनाण देस मण मीसे। पण चरम पज्ज वयणे तिय छ व पज्जियर चक्सुम्मि ॥१७॥
पज्जसन्नी• केवलद्विकसंयमपञ्चकायेकादशके एक एव पर्याप्तसंज्ञी । 'वयण'त्ति वाग्योगे द्वि-त्रि-चतुरिन्द्रियाऽसंज्ञिसंज्ञिनः पञ्च पर्याप्ताः । चक्षुर्दर्शने पर्याप्तचतुरिन्द्रियाऽसंज्ञिसंज्ञिरूपाणि त्रीणि, मतान्तरेणे न्द्रियपर्याप्त्या पर्याप्तानां तान्येवापर्याप्तसहितानि षट् ।।१७।।