SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ पडशीतिनामा चतुर्थः कर्मग्रन्थः पज्जवरिंदिअसनिसु दुदंस दुअनाण दससु चक्खु विणा। सन्निअपज्जे मणनाणचक्खुकेवलदुगविहूणा ॥६॥ पज्जचउ० पर्याप्तचतुरिन्द्रिये असंज्ञिनि च मतिश्रुताज्ञाने चक्षुरचक्षुर्दर्शने च ४, दशसु पर्याप्तापयोप्तसूक्ष्मबादर४द्वीन्द्रियवान्द्रियाऽपर्याप्तचतुरिन्द्रियाऽसंज्ञिषु चक्षुर्वर्जाः ३, पर्याप्त चतुरिन्द्रियाऽसंज्ञिसंज्ञिष्विन्द्रियपर्याप्तौ सत्यां पञ्चसंग्रहमतेन चक्षुर्दर्शनमपि । 'सन्नि अपज्जे'त्यर्द्धं सुगमम् ।।६।। अथ जीदेषु लेश्या: - सन्निदुगि छ लेस अपज्जबायरे पढम चउ ति सेसेसु । सत्तट्ठबंधुदीरण संतुदया अट्ट तेरससु ॥७॥ सन्निदुग पर्याप्तापर्याप्तरूपसंज्ञिद्वये स्वपरभवापेक्षया 'जल्लेसे मरइ तल्लेसे उववज्जइ' [ ] इति षडपि लेश्याः, अपर्याप्तबादरे आद्याश्चतस्त्रः, तद्वतां भवनपत्यादीशानान्तदेवानामपि तत्रोत्पादात् । शेषेषु आद्यास्तिस्त्रः । अथ गुणेषु बन्धादिविधि:-→[मिश्ररहित]अप्रमन्तं यावदापुर्बन्धेऽष्टानामन्यत्र सप्तानाम्, सूक्ष्मे षण्णाम्, उपशान्तादिगुणत्रये एकस्यैव सातस्य बन्धः । सत्ता तूपशान्तमोहं यावदष्टानाम्, क्षीणे सप्तानां, सयोगिन्ययोगिनि च चतसृणाम्, उदयः सूक्ष्मं यावदष्टानाम्, उपशान्तक्षीणयो: सप्तानाम्, सयोग्ययोगिनोश्चतसृणामनुभूयमानमापुर्यदावलिकाशेषं न स्यात् किन्त्वधिकं तदाष्टानामप्युदीरणा, तस्मिन्नावलिकाशेषे सप्तानाम्, वेदनीयायुषोः प्रमादसहितेनैव योगेनोदीरणा स्यान्नान्येनेत्यप्रम - त्तात्सूक्ष्मसंपरायं यावद्वेदनीयायुर्वर्जानां षण्णामुदीरणा यावन्मोहनीयमावलिकाशेषं न स्यादावलिकाशेषे तु पञ्चानां, उपशान्ते मोहवर्जानां पञ्चाना, क्षीणेऽपि तेषामेव यावज्ज्ञानदर्शनावरणान्तरायाणि आवलिकाशेषाणि न स्युरावलिकाशेषेषु तेषु क्षीणे सयोगिनि च द्वयोर्नामगोत्रपोरेवायोगी त्वनुदीरकः ||७|| अथ जीवस्थानेषु बन्धादिविधिः – १-० ज्ञिपञ्चेन्द्रियलक्षणेषु पूर्वोक्ताश्चत्वार उपयोगाश्रक्षुर्दर्शनं विना त्रयो भवन्ति, पर्याप्त-पा० । २-० भवनेशादिदेवा हे० ला।
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy