________________
गुणरत्नसूरिविरचित-अवचूर्तुपेतः बायरअसन्निविगले अपज्ज पढमबिय सन्निअपज्जत्ते। अजयजुय सन्निपज्जे सगुन मिच्छ सेसेसु ।
बायर८ तेजोवायुषु सास्वादनाभावात् तान् मुक्त्वा शेषबादरभूम्यम्बुवनस्पतिषु सामग्रन्धिक मतेन मिथ्यात्वसास्वादनरूपगुणद्वयम्, अथ तेजोवायुवर्जनम् किं ? तेजोवायूनां मध्ये सम्यक्त्वलेशवतामप्युत्पादाभावादतस्तेषां सास्वादनाभावः । एवमपर्याप्तविकलत्रिकेऽपर्याप्तसंज्ञिनि चोंभयमतेनाद्यगुणद्वयं स्यादपर्याप्तसंज्ञिनि तु तृतीयमविरतमपि । पर्याप्तसंज्ञिनि तु सर्वाण्यपि सयोग्ययोगिनोपि द्रव्यमनोभावेन संज्ञित्वाऽव्यभिचारान् । शेषजीवसप्तके मिथ्यात्वमेव ॥३॥
अथ जीवस्थानेषु योगानाह - अपजत्तछकि कम्मुरलमीस जोगा अपज्जसनिसु ते । सविउल्चमीस एसुं तणुपज्जेसुं उरलमन्ने ॥४॥
अपज्जत्तः आयेऽपर्याप्तषट्वे भवं सङ्क्रामतः प्रथमं कार्मणयोगस्तत उत्पत्तिदेश गत्वौदारिक कुर्वत: कार्मणेन मिश्रत्वादौदारिकमिश्रः । अपर्याप्तसंज्ञिनो देवनारकेषत्पन्नस्य वैक्रियमिश्रोऽपि, असंश्यपि तत्रोत्पद्यते, केवलं तत्रासौ संश्येव स्यादिति संज्ञिग्रहणम् । एषु सप्तसु तनुपर्याप्त्या पर्याप्तेषु औदारिककाययोगमपि मन्यन्ते केचित् ।।४||
सब्बे सन्निपज्जत्ते उरलं सुहुमे सभासु(स) तं चउसु। बायरि सविउब्बिदुगं पज्जसन्निसु बार उवओगा ॥५॥
सव्वे संज्ञिनि पर्याप्ते सर्वेऽपि योगाः । तत्र सत्यादिमनोयोगा: ४, एवं वाग्योगा:, औदारिकवैक्रियाहारकास्त्रय: प्रतीता:, औदारिकेन वैक्रियं कुर्वतो वैक्रियमिश्रः, पुनस्त्यक्त्वौदारिकं गच्छतः औदारिकमिश्रः, आहारकं कुर्वाणस्याहारकमिश्रः । समुद्धातावस्थायां तृतीयतुर्यपञ्चमसमयेषु कार्मणयोगी । पर्याप्तसूक्ष्मेष्वौदारिकमेव । तच्च वाग्योगयुतं विकलाऽसंज्ञिपञ्चेन्द्रियेषु। वायुषु वैक्रियस्यापि सम्भवात् पर्याप्तबादरेषु औदारिकं वैक्रियद्विकं च । अथ जीवेषूपयोगा:→पर्याप्तसंज्ञिषु ज्ञानपञ्चकाऽज्ञानत्रयदर्शनचतुष्करूपा: सर्वेऽप्युपयोगा: ।।५||