SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ बन्धस्वामित्वाख्यस्तृतीयः कर्मग्रन्थः त्सम्भव: श्रूयते, सोऽपि स्वल्पत्वादन्यतो बा कुतोऽपि हेतो: पूर्वाचा !क्तः । वेयतिगाइम त्ति वेदत्रिके आदिमे द्वितीय तृतीये च कषायचतुष्के यथाक्रमेण 'नवदुचउपंचगुण' त्ति नव-द्वि-चतुः-पञ्चगुणस्थानकेषु य: कर्मस्तवमेत ओघ: स ज्ञेयः, यथा-वेदत्रिके मिथ्यात्वादौ अनिवृत्तिबादरान्तगुणस्थाननवके कर्मतवोत्त ओघः ११७, सामान्यतस्तु नानाजीबापेक्षया १२०, [मिथ्याचे ११७, सास्वादने १०१, मिश्रे ७४, अवि० ७७, दे०६७, प्र० ६३, अ० ५९-५८, अपूर्व० ५८, ५६, २६, अनि २२ ।] अनन्तानुबन्धिषु ओघतो मिथ्यात्वे च ११७, सास्वा० १०१ । अप्रत्याख्यानेष्वोधतो ११८, मिथ्यात्वे ११७, सास्वा० १२१, मिश्रे७४, अविरते ७७ । प्रत्याख्यानावरणेष्वप्येवं, केवलं मिथ्यात्वे देशविरती ६७ ॥१६।। संजलणतिगे नव दस लोभे चउ अजइ दु ति अनाणतिगे। बारस अचम्खुचक्खुसु पढमा अहक्खाइ चरमचऊ ॥१७॥ संजलण० गाहा । सञ्चलनत्रिके क्रोधमानमायारूपे कर्मस्तव प्रथमनवगुणस्थानोक्त ओघः । तत्र सामान्यबन्धान्निवृत्तिबादरं यावद्वेदत्रिकन्यायेन विंशत्युत्तरशतादिकः प्राग्वत् । अनिवृत्तिबादरभागपञ्चकेषु प्रथमभागे २२, द्वितीये पुंवेदरहिता २१, तृतीये सञ्चलनक्रोधरहिता २०, तुर्ये सज्वलनमानरहिता १९, पश्चमे सज्वलनमायारहिता १८, सज्वलनलोभे तु सूक्ष्मसम्परायेऽपि सम्भवाद् दशगुणस्थानकोक्त ओघ: । अयताभिधे मार्गणास्थाने मिथ्यात्वादिगुणस्थानचतुष्कौघः, यथा —सामान्यतोऽविरतसम्यग्दृष्टेरपि संगृहीतत्त्वाज्जिननामक्षेपे ११८, मिथ्या० ११७, सास्वा० १०१, मिश्रे ७४, अविरते ७७ । अज्ञानत्रिके 'दुर्ति'त्ति, मिथ्यात्वसास्वादनद्वयौघो, मिश्रेण सह तत्त्रयौधो वा, यथा ओघे ११७, [मि० ११७], सास्वादने १०१, मिश्रे ७४ - शून्यं वा, अयमाशय: मिश्रे ज्ञानांश[श्वास्ति यदा ज्ञानांश]प्राधान्यविवक्षा तदाऽज्ञानत्रिके गुणद्वयमेव, अज्ञानांशप्राधान्ये तु तृतीयं मिश्रमपि । चक्षुरचक्षुर्दर्शनयोमिथ्यात्वादिद्वादशगुणौधः, नत्रौघत: १२०, मिथ्या० ११७, यावत्क्षीणमोहे सातबन्धः, परतस्तु चक्षुरचक्षुषोः सतोरप्यनुपयोगित्वेनाव्यापारात् । यथारख्याते उपशान्तादिचतुर्गुणस्थानौघो, यथा--ओघतः १, उप० १, क्षीणः १, सयोगि० १, अयोगिनि- ||१७||
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy