________________
गुणरत्नसूशिवराचत-अवचूण्युपेतः . ।
आहारकपटकं बिना शेषम् ११४ ओघतो बन्ध: प्राप्यते, स ह्यपर्याप्तावस्थायां स्यात् तदानीं च नैतत्प्रकृतिषट्वं बध्यते । औदारिकमिश्रकाययोगी मिथ्यात्ने जिनपञ्चकहीनं नवोत्तरं शतं बध्नाति । स एव सास्वादने ९४ बध्नाति, नरतिर्यगायुषोरपर्याप्तत्वेन सूक्ष्मत्रिकादि-सेवान्तिप्रकृतित्रयोदशकस्य तु मिथ्यात्वे एव व्यवच्छिन्नबन्धतया च । मिश्रं पुनर्नाव [भवति], यत औदारिकमिश्रस्यापर्याप्तावस्थायां [समुद्धातावस्थायां] च भावात् । एवमविरतसयोगिवर्जदेशविरत्यादीन्यपि तत्र न स्युः ॥१४||
अणचउवीसाइ विणा जिणपणजुय सम्मि जोगिणो सायं । विणु तिरिनराउ कम्मे वि एवमाहारदुगि ओहो ॥१५॥
अणचउ० गाहा । तत्रौदारिकमिश्रस्थोऽविरत उत्पत्तिसमयेऽनन्तानुबन्ध्यादितिर्यग्विकावसानचतुर्विंशतिप्रकृतीविना जिनसुरद्रिक[वैक्रियद्विक]रूपप्रकृतिपञ्चकक्षेपे पञ्चसप्ततिप्रकृतिबन्धः रचयति । सयोगिनस्तु समुद्धातावस्थायां सप्तषष्ठद्वितीयसमयेष्वौदारिकमिश्रस्थस्य सातस्यैव बन्धः । अन्तरालगतौ समुद्धातावस्थाभाविनि च कार्मणयोगेऽप्येवम्, यथौदारिकमिश्रे बन्धविधिरोघतो विशेषतश्चोक्तस्तथेहापि, नवरं तिर्यग्नरायुषी वर्जयित्वा, कार्मणकाययोगे तद्वन्धाभावात्, तत: कार्मणकाययोगे ओघत: ११२, मिथ्यात्वे १०७, सास्वादने ९४, अविरते ७५, सयोगिनि १ । 'आहारदुगि ओहुत्ति आहारके आहारकमिशे च कर्मस्तवोक्त ओघ: प्रमत्तगुणस्थानकवर्ती त्रिषष्टिरूप, एतत्काययोगद्वयं हि लब्ध्युपजीवनात्प्रमत्तस्यैव, न त्वप्रमत्तस्येति न तदोघबन्धसम्भवः ॥१५||
सुरओहो वेउच्चे तिरियनराउरहिओ य तम्मिस्से । वेयतिगाइम बिय तिय कसाय नव दु चउ पंच गुणा ॥१६॥
सुरओहो० गाहा । वैक्रियकाययोगे सुराणां सुरगतौ प्रागुक्त ओघस्तथैव, यथा-→ओघे १०४, मिथ्यात्वे १०३, सास्वादने ९६, मिश्रे ७८, अविरते ७२, 'तम्मिस्सि' नि वैक्रियमित्रे तिर्यग्नरायुर्वन्धरहितः सुरौघ:, वैक्रियमिश्र ल्यपर्याप्तावस्थायां देवनारकाणां लभ्यते, तदानीं च तेषामायुर्वन्धाभावात्, तथा च तत्रौघे १०२, मिथ्यात्वे १०१, रसस्वा० ९४, अविरते ७१, देशविरत्यादिषु वैक्रियमिश्रस्य सम्भवो नास्ति, यद्यपि देशविरतस्याम्बडादेः प्रमत्तस्य तु विष्णुकुमारादे वैक्रियं कुर्वतस्त