SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ बन्धस्यामित्वाख्यस्तृतीयः कर्मग्रन्थः मिश्राणामसम्भवादोघेऽविरते च ७२, एनत्सूत्रोक्तं न वतर्ने तथाऽप्यर्धतो ज्ञेयम् । “जिणइक्कारसहीणं' [गाथा-९] इत्यादिगाथावयवोक्तम्। अपर्याप्ततिर्यग्वत् १०९ एकेन्द्रिय-पृथ्वी-जल-तरु-विकला ओघतो मिध्यात्वे च बध्नन्ति ||११|| छनवइ सासणि विणु सुहुमतेर केइ पुण बिंति चउनवई। तिरयिनराऊहिँ विणा तणुपज्जत्तिं न ते जंति ॥१२॥ छनवइ० गाहा । एने एकेन्द्रिया[दय:] सास्वादना: सूक्ष्मत्रिकादिप्रकृतित्रयोदशकं मिथ्यात्व एव व्यवच्छिन्नबन्धमिति कृत्वा षण्णवतिं बध्नन्ति, केचित् पुनश्चतुर्नवतिं ब्रुवते, निर्यग्नरायुषोस्तनुपर्याप्त्या पर्याप्तैरेव बध्यमानत्वात्, ते च सास्वादनत्वादपर्याप्ता एवोच्यन्ते ।।१२।। ओहु पणिदि तसे गइतसे जिणिकार नरतिगुच्च विणा। मणवयजोगे ओहो उरले नरभंगु तम्मिस्से ॥१३॥ आहारछग विणोहे चउदससउ मिच्छि जिणपणगहीणं। सासणि चउनदइ विणा नरतिरिआऊ सुहुमत्तेर ॥१४॥ ओहु पणिंदि० गाहा । आहारछग० गाहा । पञ्चेन्द्रियेषु च कर्मस्तवोक्तः स्वस्वगुणस्थानके ओपो, यथा→ सामान्यतो १२८, मिथ्यात्वे ११७, सास्वादने १०१, मिश्रे ७४, अविरते ७७, देशे ६७, प्रमत्ते ६३, अप्रमत्ते ५९-[५८], अपूर्वस्य प्रथमभागे ५८, तत परं भागपञ्चके ५६, सप्तमे भागे २६, अनिवृत्तिबादरे प्रथमभागे २२, द्वि० २१, तृ० २०, चतु० १९, पञ्च० १८, सूक्ष्मे १७, शेषत्रये सातस्यैकस्य बन्धः । गतित्रसेषु तेजोवायुषु जिनैकादशकनरत्रिकोच्चरुपा; १५ प्रकृतीईिना पश्चोतरं शतं बन्धे लभ्यते । सास्वादनादिभावस्तु नैषाम्, यत: 'न हु किंचि लभिज्न सुहुमतसा' [ ]इत्यादि । चतुर्विधमनोयोगे [च ओघः कर्मस्तवोक्तो विंशत्युत्तरशतादिरूपः । मनोवाग्योगपूर्वक औदारिककाययोगे तु नरभङ्गो, ‘इय चउगुणेसु वि नरा' [गाथा ९] इत्यत्रोक्तरूपो, यथा-→ओघ: १२०, मिथ्यात्वे ११७, सा० १०१, मिश्रे ६९, अविरते ७१ इत्यादि। मनोरहित]वाग्योगे विकलेन्द्रियभगः । केवलकाययोगे त्वेकेन्द्रियभङ्गः । 'तम्मिसे' त्ति औदारिकमिश्रयोगे ॥१३॥
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy