SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ३६ गुणरत्नसूरिविरचित- अवचूर्युपेतः इयचउगुणेसु वि नरा परमजया सजिण ओहु देसाई । जिणइक्कारसहीणं नवस अपजत्ततिरियनरा ॥ ९॥ परं अयता= इय चउगुणेसु॰ गाहा । इत्येवं पर्याप्ततिर्यग्न्यायेन पर्याप्तनरा अपि चतुर्षु मिथ्यात्वादिगुणेषु बन्धस्वामिनो मन्तव्याः । यथा मिध्यात्वे ११७, सास्वादने १०१, मिश्र ६९, अविरते ७१, [ = अविरता जिनकर्मणोऽपि बन्धकाः स्युरिति तिर्यग्बन्धयोग्यसप्ततेरेकाधिकत्वम्, ओघत एषां १२०, देशविरत्यादिषु पुनरोधः कर्मस्तवोक्त एव 1 अपर्याप्ततिर्यग्नरास्तु जिनादिनरकत्रिकावसानैकादशप्रकृतिबर्ज शेषं नवोत्तरशतम् ओघतो मिथ्यात्वे च बध्नन्ति । यद्यपि करणापर्याप्तो देवो मनुष्यो वा जिनकर्म सम्यक्त्वप्रत्ययेन बध्नाति तथापीह नराणां लध्यपर्याप्तत्वेन विवक्षणान्न विरोधः ||१९|| निरय व सुरा नवरं ओहे मिच्छे इगिंदितिगसहिया । कप्पदुगे वि य एवं जिणहीणी जो भवणवणे ॥ १०॥ निरयव्व० गाहा । सुरा अपि नारकवदोघतो विशेषतञ्च तत्तद्बन्धस्वामिनोऽवगन्तव्याः । नवरमोघे मिथ्यात्वे च पावान् बन्धो नारकाणां स एव एकेन्द्रियादित्रिकयुतस्तथाहि- → ओघतो देवानां १०४, मिथ्यात्वे १०३, जिनकर्मबन्धाभावात् । सास्वादनादौ नारकक्रम एव विशेषचिन्तया । कल्पद्विकेऽप्ययं देवानां बन्ध एवमेवेति । भवनपति - व्यन्तर- - ज्योतिष्केषु तु यथासम्भवं जिनकर्मबन्धरहितो ज्ञेय:, जिनकर्मसत्ताकस्य तेषूत्पादाऽभावेन तत्र तद्बन्धासम्भवात्, तथाहि भवनपत्यादीनामोघतो मिथ्यात्वे च १०३, सास्वादन - मिश्रयोस्तथैव, अविरते ७१ इति ॥१०॥ रयणु ब्व सणकुमाराइ आणयाई उज्जोयचउरहिया । अपजतिरिय व्व नवसयमिगिंदिपुढविजलतरुविगले ॥११॥ रयणु व्व० गाहा । सनत्कुमारादिषङ्के रत्नप्रभाया भङ्गो, यथा- १०१, १००, ९६, '७०, ७२ । आनतादित्रयोदशके तूद्योततिर्यक्त्रयरहितः सः पूर्वोक्तो रत्नप्रभाभो यथासम्भवं वाच्यो, यथा - ओये ९७, मिथ्यात्वे ९६, सास्वादने २२, मिश्र अविरते चोद्यतादिचतुष्कस्य सास्वादनान्तत्वेन संपूर्ण एव रत्नप्रभाभगो, यथा - मित्रे ७०, अविरते ७२, अनुत्तरपञ्चके तु मिथ्यात्व - स्वास्वादन -
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy