________________
बन्धस्वामित्वाख्यस्तृतीयः कर्मग्रन्थः अविरते ७१, 'तिसु तित्थं [प्र. सा० गा० १०८७] इति वचनादन सम्यग्दृशामपि भवप्रत्ययादेव तद्वन्धकत्वाऽयोगात् ||५||
अजिणमणुआउ० गाहा । सप्तम्यां नारका ओघतो जिननरायुर्वर्जा प्रकृतिनवनवतिं बध्नन्ति, त एव मिथ्यात्वे नरद्विकोच्चैर्गोत्रवर्जा षण्णबतिं, तेषां क्लिष्टत्वेन तिर्यग्गतियोग्यनीचैर्गोत्रस्यैव बन्धात् । 'इगनवईत्यादि सुगमम् ॥६॥
अणचवीसविरहिया सनरदुगुच्चा य सयरि मीसदुगे। सतरसउ ओहि मिच्छे पज्जत्तिरिया विणु जिणाहारं ॥७॥
अणचवीस० गाहा । 'मीसे सम्मे सयरी विणु अणचवीसनरदुगुच्चजुआ' [ ] सप्तमपृथ्वीनारका एव बध्नन्ति मिश्रस्था: सप्ततिप्रकृतिः, तामेव सप्ततिमविरता अपि, अत्रायुर्बन्धसम्भवेऽपि सप्तम्यां तिर्यगायुष एव केवलस्य बन्धात्तस्य च मिथ्यादृष्टि(टौ) सास्वादने एव बध्यमानत्वादिह न तद्वन्धः । एतत्सूत्रे साक्षादनुक्तमप्यर्थतो ज्ञेयम् । अथ तिर्यग्गतौ बन्धस्वामिनः → सप्तदशोत्तरं शतमोघतो मिध्यादृष्टयश्च पर्याप्ततिर्यञ्चो बध्नन्ति, तेषां सम्यग्दृशामपि भवप्रत्ययादेव जिननाम्नो बन्धाभावात्, आहारकद्विकस्याप्रमत्तेनैव बध्यमानत्वात् ।।७||
विणु नरयसोल सासणि सुराउ अण एगतीस विणु मीसे। ससुराउ सरि सम्मे बीयकसाए विणा देसे ॥८॥
विणुनरय० गाहा । सास्वादने नरकत्रिकादिषोडशप्रकृतीर्मुक्त्वा एकोत्तर शतं । मिश्र सुरपुरनन्तानुबन्ध्यायेकत्रिंशत्प्रकृतीश्च मुक्त्वा शेषामेकोनसप्ततिं, तत्र 'सम्मामिच्छादिट्टी आउअबंधं पि न करे' [ ] इति वचनात् सुरनरायुषोरबन्धः, पञ्चविंशतिप्रकृतय: सास्वादन एवं व्यवछिन्ना:, तथा मनुष्यास्तिर्यञ्चश्व मिश्रगुणस्था अविरतसम्यग्दृष्टिव देवार्हमेव बध्नन्ति, तेन नरत्रि(द्वि)कोदारिकद्विकवज्रऋषभानामपि बन्धाभावः। सुरायुर्बधाधिक्येन ते अविरता: सप्ततिम् । देशविरतिस्था द्वितीयकषायवर्जा पट्पष्टिम् ।