________________
कर्मस्तवनामा द्वितीयः कर्मग्रन्थः
सत्ता, द्वितीये सासादने तृतीये मिश्रे जिननाम बिना १४७ सत्ता,जिननामसत्कर्मणो जीवस्य तद्भावानवाप्तेः । अबिरताचप्रमत्तान्तानामक्षपितदर्शनसप्तकानाम् १४८] सम्भवति ।।२५।।
अपुवाइचउक्के अण तिरिनिरयाउ विणु विआलसयं । सम्माइचउसु सत्तगखयम्मि इगचत्तसयमहवा ॥२६॥
अप्पु. कश्चिद् वियोजितानन्तानुबन्धिचतुष्को बद्धदेवायुर्मनुजायुषि वर्तमान उपशमश्रेणिमारोहति, तस्यापूर्वादिचतुष्के अनन्तानुबन्धिचतुष्कादिप्रकृतिषट्कं विना १४२ सत्ता । आद्यकषायचतुष्कदर्शनमोहत्रिकरूपसप्तकक्षये अविरतादिगुणस्थानचतुष्के १४१ सत्ता । इयं चैतेषु गुणस्थानेषु सामान्यजीवानां सम्भवमधिकृत्य सत्ता वणिता । अधुनाऽधिकृतस्तुत्यस्य जिनस्योच्यते ।।२६॥
खवगं तु पप्प चउसु वि पणयालं नरयतिरिसुराउ विणा । सत्तग विणु अडतीसं जा अनियट्टी पढमभागो ॥२७॥
खव० चतुर्ध्वप्यविस्तादिगुणस्थानेषु १४५ सत्ता, प्राग्भवव्यवच्छिन्ननरकाद्यायुस्त्रयसत्ताकत्वात् । क्षपकजिनस्य दर्शनसप्तकं बिना १३८ सत्ता, यावदनिवृत्त्यद्धायाः प्रथमो भागः ||२७||
थावरतिरिनिरयायवदुग थीणतिगेग विगल साहारं । सोलखओ दुवीससयं बियंसि बियतियकसायंतो ॥२८॥
थावः तत्र च प्रथममेव द्वितीयतृतीयानष्टौ कषायाम् क्षपयितुमारभते, तेषु चार्द्धक्षपितेषु स्थावरद्विकादिषोडशप्रकृतिक्षय: स्यात् १२२ सत्ता, द्वितीयांशेऽनिवृत्त्यद्भायास्तत: शेषमष्टकस्य क्षपयति
||२८||
तइयाइसु चउदसतेरबारछपणचउतिहिय सय कमसो। नपुइथिहासछगपुंसतुरियकोहमयमायखओ ॥२९॥ तइ० यावन्नवमे भागे १०३ सत्ता, तत्र मायाक्षयः ।।२९।। मुहुमि दुसय लोहंतो खीणदुचरिमेगसय दुनिइखओ। नवनवइ चरमसमए चउदंसणनाणविग्धंतो ॥३०॥ सुहु० सूक्ष्मसंपराये १०२ सत्ता, लोभस्यान्तः । क्षीणमोहस्य द्विचरमे समये १०१