SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ कर्मस्तवनामा द्वितीयः कर्मग्रन्थः च देशविरतान्तान्येब गुणस्थानानि । उद्योतनाम्नस्तु यत्तिवैक्रियेषूदयः सम्भवति, स विहाचार्येण न । विवक्षितः । नीचैर्गोत्रं तु तिर्यक्षु गतिस्वाभाव्यात् ध्रुवोदयिकं न परावर्तते, ततश्च देशविरतस्यापि तिरश्चो नीचैर्गोत्रोदयोऽस्त्येव, मनुजेषु तु सर्वस्य देशविरतादेर्गुणप्रत्ययान्नोदेति, [प्रत्याख्यानावरणोदये चारित्रलाभ एव न भवति, न पूर्वप्रतिपन्नचारित्रस्य तदुदयः] ॥१६॥ अट्ठच्छेओ इगसी पत्ति आहारजुगलपक्खेवा । थीणतिगाहारगद्गछेओ छस्सयरि अपमत्ते ॥१७॥ जाह मो भारमलाक्षेपादेदादीनि: धीणतिगाहारगदुग' त्ति आहारकं कुर्वाणो यतिरवश्यं प्रमादवशग: स्यात् । यत्त्विदमन्यत्र श्रूयते-→प्रमत्तयतिराहारकं विकृत्य पश्चाद् बिशुद्धिवशात् तत्रस्थ एवाप्रमत्ततां याति तन्न विवक्षितम् ।।१७|| . सम्मत्तंतिमसंघयणतिगच्छेओ बिसत्तरि अपुल्चे। हासाइछक्कअंतो छसट्ठि अनियट्टि वेयतिगं ॥१८॥ सम्म० सम्यक्त्वे क्षपिते उपशमिते वा श्रेणिद्वयमारुह्यत इत्यपूर्वकरणादौ तदुदयाभावः । अन्तिमसंहननत्रयोदये तु श्रेणिमारोढुं न शक्यते, तथाविधविशुद्धेरभावादित्युत्तरेषु तदुदयाभावः ॥१८॥ संजलणतिगं छच्छेओ सट्टि सुइमम्मि तुरियलोभंतो। उबसंतगुणे गुणसट्ठि रिसहनारायदुगअंतो ॥१९॥ संज० "स्सिहनारायदुगअंतो' ति प्रथमसंहननेनैव क्षपकश्रेण्यारोहणात् क्षीणमोहादी ऋष[भनाराचद्विकोदयाभावः । उपशमश्रेण्यां त्वाद्यसंहननत्रयेणाऽऽरुह्यते ।।१९।। सगवन्न खीण दुचरमि निद्ददुगंतो य चरमि पणपन्ना। नाणंतरायदसणचउ छेओ सजोगि बायाला ॥२०॥ सग० क्षीणमोहस्य द्विचरमे=चरमसमयादाक् समये निद्रा प्रचलयो: चरमसमये तु क्षीणत्वादन्तोऽपरे त्वाहुः -→ उपशान्तमोहे निद्राद्वि]कस्यान्तः । पञ्चानामपि निद्राणां घोलनापरिणामेन १ संहनन एव-हे।
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy