________________
गुणरत्नसूरिविरचित-अवचूण्र्युपेतः सासादनभावस्थस्य नरकेषुत्पादो न भवति, तदपान्तरालगतिभाविनरकानुपूर्व्या नास्त्युदय इति तत्सहिते मिथ्यादृष्टिव्यवच्छिन्ने च पञ्चकोपनीते सासादने शेषमेकादशोत्तरं शतम् । 'अण'त्ति अनन्तानुबन्धिनः योऽपि पूर्वप्रतिपन्नसम्यक्त्वोऽनन्तानुबन्धिनामुदयं करोति सोऽपि सासादन एव [भवति, स्थावरैक(केन्द्रिय)विकलेन्द्रियजातयस्तु यथास्वमेकेन्द्रियादिवेद्या एव, उत्तरगुणस्थानानि तु संज्ञिपश्चेन्द्रिय एव प्रतिपद्यते पूर्वप्रतिपन्नोऽपि पञ्चेन्द्रियेष्वेब गच्छ]तीत्युत्तरेष्वासां प्रकृतीनामुदयाभावः ||१४||
मीसे सयमणुपुवीणुदया मीसोदएण मीसंतो। चउसयमजए सम्माणुपुबिखेवा चियकसाया ॥१५॥
मीसे० मिश्रे विग्रहगतिभावी नास्त्यानुपूर्वीचतुष्कस्योदयस्तत्र नरकानुपूर्वी पूर्वापनीनैव, शोषत्रयसहितं सासादनव्यवच्छिन्नं नवकमेकादशोत्तरशतादपनीतं, ततो नवनवतिः शेषा:, तस्यां मिश्रे प्रक्षिप्ते शतं स्यात् । मिश्रस्यान्तः सम्यक्त्चे आनुपूर्वीचतुष्के च प्रक्षिप्तेऽयतेऽबिरते चतुरुत्तरशतम् ॥१५||
मणुतिरिणुपुब्वि विउवऽट्ट दुहग अणाइज्जदुग सतरछेओ। सगसीइ देसि तिरिगइआउ निउज्जोय तिकसाया ॥१६॥
मणु० वैक्रियाष्टकं देवत्रिक नरकत्रिक-बैंक्रियशरीर-तदङ्गोपाङ्गरूपम् । नापि पूर्व प्रतिपन्नदेशविरत्यादेर्जीवस्य द्वितीयकषायोदयसम्भवो, मनुजनिर्यगानुपूर्को: परभवादिसमयेषु त्रिष्वपान्त. रालगताबुदयः, स च यथायोगं मनुजतिरश्वां वर्षाप्टकादुपरिष्टात् सम्भविषु देशविरत्यादिगुणस्थानेषु न स्यात् । देवत्रिकं नरकत्रिकं च यथास्वं देवनारकवेद्यमेव । वैक्रियशरीरतदङ्गोपाङ्गनाम्नोर्देवनारकेषु उदयस्तिर्यग्मनुष्येषु तु प्राचुर्पणाविरतसम्यादृष्टयन्तेषु, पस्तूत्तरगुणस्थानेष्वपि केषाञ्चिद् आगमे विष्णुकुमारश्रीस्थूलभद्रादीनां वैक्रियद्विकस्योदयः श्रूयते स इहाचार्येण न विवक्षित:, किमिति स्तोकत्वादाहोश्विदन्यः कोऽप्यभिप्राय इति न विद्मः । दुर्भगमनादेयमयश:कीर्त्तिरित्येतत्रयं देशविरतादीनां गुणप्रत्ययान्नोदेति, इति सप्तदशच्छेदः, सप्ताशीतिर्देशे, तिर्यग्गति-तिर्यगायुरुद्योतनामेत्येता: स्वभावतस्तिर्यग्वेद्या एव, तेषु
१. मित्रे विग्रहगतिर्न सम्भवत्यतो विग्रह.-पाल।