________________
कर्मस्तवनामा द्वितीयः कर्मग्रन्थः द्वाविंशतिबन्धो ज्ञेयः । पुरुषवेदादीनां मायासज्वलनान्तानामुत्तरत्र तद्वन्धाध्यवसायस्थानाभावाल्लोभसज्वलनस्य तु बादरसम्परायप्रत्ययो बन्धः । स चोत्तरत्र नास्तीत्यतो व्यवच्छेदस्तेनाद्ये भागे २२, द्वितीये २१, तृतीये २०, चतुर्थे १९, पञ्चमे १८, सूक्ष्मसंपराये सप्तदशबन्धः ||११||
चउदंसणुच्चजसनाणविग्घदसगं ति सोलसुच्छेओ। तिसु सायद यो सडोगि गनुर्णको ज॥१२||
चउ० दर्शनावरणचतुष्कमुच्चैर्गोत्रं, यश:कीर्तिनाम, ज्ञानान्तरायदशकमिति षोडशप्रकृनीनां व्यवच्छेद, एतद्वन्धस्य साम्परायि[क]त्वात् । त्रिषूपशान्तमोहादिषु सातस्य बन्धः, सयोगिनि तद्वन्ध[व्यवच्छेदस्तदुत्तरस्मिन्नयोगिकेवलिनि तद्वन्धप्रत्ययस्य योगस्याभावात् । तदेवं प्रकृतीनां ज्ञेयो बन्धस्यान्तोऽनन्तश्च, यत्र हि गुणस्थाने यासां प्रकृतीनां बन्धहेतु]व्यवच्छेदस्तत्र तासां बन्धस्यान्तस्तत उत्तरेषु कारणवैकल्येन बन्धाभावादितरासां बन्धस्यानन्तः । ॥१२||
॥ इति बन्धाधिकारः ।। उदओ विवागवेयणमुदीरण अपत्ति इह दुवीससयं । सतरसयं मिच्छे मीससम्मआहारजिणऽणुदया ॥१३॥
उद० कर्मपुद्गलानां बिपाकवेदनमुदयः । उदीरणा चाप्राप्ते विपाकवेदने । इहोदयोदीरणयो: प्रकृतीनां द्वाविंशशतमधिक्रियते, तच्च दर्शितमेव प्राक् । तत्र सम्पमिथ्यात्वसम्यक्त्वाहारकतनुतदङ्गोपाङ्गजिननाम्नामुदयो नास्ति मिथ्यादृष्टौ । शेषं सप्तदशोत्तरं शतमुदये ॥१३॥
सुहमतिगायवमिच्छं मिच्छत सासणे इगारसयं । निरयाणुपुग्विणुदया अणधावरइगविगलअंतो ॥१४॥
सुहुम० सूक्ष्मत्रिकं सूक्ष्मापर्याप्तसाधारणरूपमातपं मिथ्यात्वं च मिथ्यात्वान्तं भवति । न चैतेषु स्थितो जीवः सासादनादित्वं लभते, नापि पूर्वप्रतिपन्नस्तेषूपपद्यते । सासादनास्तु यद्यपि बादरपर्याप्तकैकेन्द्रियेषूत्पद्यन्ते तथापि न तस्यातपनामोदयासम्भवस्तत्रोत्पन्नमात्रस्याऽसमाप्तशरीरस्यैव सासादनत्वदमनात्, समाप्ते च शरीरे नत्रातपनामोदयस्तेनैतासां मिथ्यादृष्टौ व्यवच्छेद उदयस्य ।