SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ गुणरत्नसूरिविरचित-अवचूर्युपेतः गुणसट्टि अप्पमत्ते सुराउबंधं तु जइ इहागच्छे । अन्नह अट्ठावन्ना जं आहारगदुगं बंधे ॥८॥ गुण० अप्रमत्ते प्रमत्तव्यवच्छिन्नासु षट्प्रकृनिषु त्रिवष्टिरपनीतासु शेषायां सप्तपश्चाशति द्वयोराहारकशरीरङ्गोपाङ्गयोः प्रक्षिप्तोरेकोनषष्टिः, सुरायुर्बभन् यदीहागच्छेत्, देवायुष्कबन्धं हि प्रमत्तः कारभते, गन्धा यानेर काबिहार लो भूना समापयति, न त्वप्रमत्त एवारभते, तद्वन्धस्य तदुत्तरेष्वसंभवात्, तेषामत्यन्तशुद्धत्वाद्, अन्यथा प्रमत्त एव सुरायुर्बन्धव्यवच्छेदेऽप्रमत्तेऽष्टपञ्चाशत् ||८|| अडबन्न अपुच्चाइम्मि निद्ददुगंतो छप्पन्न पणभागे । सुरदुग पणिदि सुखगइ तसनव उरलविणु तणुवंगा ॥९॥ अड. अपूर्वकरणाद्धायाः सप्तभागाः क्रियन्ने, तत्राद्ये भागेऽष्टपञ्चाशदेव, नत्र निद्राप्रचलयोरन्तस्तदुत्तरत्र तद्वन्धाध्यवसायाभावात्, पञ्चसु भागेषु षट्पञ्चाशत्, सुरद्विकं देवगति देवानुपूर्वरूपम्, पञ्चेन्द्रियजाति:, 'सुखगइत्ति' शुभविहायोगति:, त्रसनवकं त्रसबादरेत्यादिआदेयान्तम्, औदारिकं बिना शरीरचतुष्कमगोपागद्वयं च ॥९॥ समचउर निमिण जिण बन्न अगुरुलघुवउ छलंसि तीसंतो। चरमे छवीसबंधो हासरईकुच्छभयभेओ ॥१०॥ सम० समचतुरस्र, निर्माणं, जिननाम, वर्णचतुष्कं वर्ण-गन्ध-रस-स्पर्शरूपम्, अगुरुलघुचतुष्कम् अगुरुलघूपघातपराधानोच्छ्वासाख्यमिति त्रिंशत्प्रकृतीनामन्तोऽपूर्वकरणस्य षष्ठांशे, चरमे= सप्तांशे षड्वेिशतेर्बन्धः । हास्यादिप्रकृतिचतुष्कस्य भेदोऽन्तः ॥१०|| अनियट्टिभागपणगे इगेगहीणो दुवीसविहबंधो । पुमसंजलणचउण्हं कमेण छेओ सतर सुहमे ॥११॥ अनियट्टिः अनिवृत्त्यद्धाया: पञ्चसु भागेषु यथाक्रममेकैकस्मिन् भागे एकैकप्रकृतिहीनो १. ट्टि अनिवृत्तौ द्वाविंशतेर्बन्धः। अनि०-पा।
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy