________________
कर्मस्तवनामा द्वितीय कर्मप्रन्यः
अणमज्झागिइसंघयणचउ निउज्जोयकुखगइत्थि त्ति । पणवीसंतो मीसे चउसयरि दुआउयअबंधा ॥५॥
अण० अनन्तानुबन्धिनश्चत्वारःक्रोधाद्या:, मध्यमाकृतिचतुष्कं न्यग्रोधपरिमण्डलसादिववामनकुब्जरूपम्, मध्यमसंहननचतुष्कम् ऋषभनाराच-नाराचार्द्धनाराचकीलिकारूपम्, नीचैर्गोत्रम्, उद्योतं, कुखगतिरप्रशस्तबिहायोगतिः, स्त्रीवेद इति पञ्चविंशतेरन्तो, मिश्रे देव-मनुष्यायुषोरपि बन्धो नास्ति, आयुर्बन्धाध्यवसायस्थानविरहादतस्तत्सहितायां सासादनव्यवच्छिन्नपञ्चविंशतावेकोत्तरशतादपनीतायां शेषाश्चतुःसप्ततिर्बन्धे ।।५||
सम्मे सगसयरि जिणाउबंधि वइर नरतिग वियकसाया। उरलदुगंतो देसे सत्तट्ठी तिअकसायंतो ॥६॥
सम्मे० सम्यग्दृष्टौ जिनायुर्बन्धे जिननामदेवमनुष्यायुष्केषु प्रक्षिप्तेषु सप्तसप्ततिः । 'वइर' त्ति वज्रऋषभनाराचसंहननम् । तत्र द्वितीयकषायचतुष्कं तदयाभावान्न बध्नाति देशविरतादिः, कषाया एनन्तानुबन्धिवर्जा वेद्यमाना एव बध्यन्ते, अनन्तानुवन्धिनस्तु चतुर्विंशतिमोहसत्कर्माऽनन्तक्षपको मिथ्यात्वं गतो बन्धावलिकामात्र कालमनुदितान् बध्नानि । नरत्रिकं त्वेकान्तेन मनुष्यवेद्यमेव, बज्रऋषभनाराचं
औदारिकद्विकं च मनुष्यतिर्यगेकान्तवेद्यमेव, देशविरतादिस्तु देवगतिवेद्यमेव बध्नाति नान्यत्, तेनैतद्दशकस्य सम्यग्दृष्टावन्त:, सम्यग्मिथ्यादृष्टौ न कस्यचिद् बन्धव्यवच्छेदस्तस्याऽविरतसम्यम्दृष्टिना सह बन्धहेत्वविशेषात् । देशविरते सप्तषष्टिः, तत्र तृतीयकषायाणामन्तस्तदुत्तरेषु तेषामुदयाभावादनुदितानां च बन्धाभावात् । ॥६||
तेवट्टि पमत्ते सोग अरइ अधिरदुग अजस अस्सायं । वुच्छिज्ज छच्च सत्त व नेइ सुराउं जया निर्ल्ड ॥७॥
तेव० [सर्व] विरतो द्विधा → प्रमत्तोऽप्रमत्तश्च । तत्र प्रमत्ते त्रिषष्टिः, शोकादयः षट्प्रकृतयो व्यवच्छिन्नाः स्युः, सप्त वा नयति सुरायुर्यदा निष्ठां प्रमत्तः ।।७।।