________________
गुणरत्नसूरिविरचित- अवचूण्युपेतः
शेषस्य तु यथास्वरूपस्थितया श्रेण्या निर्जरणं शैलेशीकरणम् ||१४|| एतानि गुणस्थानानि ||२||
अभिनवकम्मग्गहणं बंधो ओहेण तत्थ वीससयं । तित्थयराहारदुगवज्जं मिच्छम्मि सत्तरस्यं ॥ ३ ॥
I
अभिः नवीनकर्माणुग्रहणं बन्धस्तत्र ओघेन - सामान्येन विंशत्युत्तरं प्रकृतिशतमधिक्रियते । तथाहि → ज्ञानावरणे पञ्च दर्शनावरणे नव, वेदनीये द्वे, मोहनीये अष्टाविंशतिरायुषि चतस्रो, नाम्नि त्रिनवतिगोत्रे द्वे, अन्तराये पञ्च । एतत्पिण्डोऽष्टाचत्वारिंशं शतमेतेन सत्तायामधिकारः । उदयोदीरणयोश्चौदारिकादिबन्धनानां पञ्चानामौदारिकादिसंघातनानां च पञ्चानां यथास्वमौदारिकादिषु पञ्चसु शरीरेष्वन्तर्भावे वर्णगन्धरसस्पर्शानां चतुर्णामभिन्नानां ग्रहणे शेषेण द्वाविंशेन शतेनाधिकारो । बन्धे तु सम्यक्त्वसम्यग्मिथ्यात्ववर्जं शेषेण विंशेन शतेनाधिकारः । अधुना मिध्यादृष्ट्यादिगुणस्थानेषु बन्धो दर्श्यते, तत्र तीर्थकराहारकद्विकवर्जं तीर्थकरनाम्न आहारकद्वयस्य च मिथ्यादृष्टेर्बन्धो नास्ति, नद्वन्धस्य यथासङ्ख्यं सम्यक्त्वसंयमप्रत्ययत्वात् । शेषं सप्तदशोत्तरशतं कर्मप्रकृतीनां मिथ्यादृष्टिगुणस्थाने [बन्धः ] स्यात् ॥३॥
नस्यतिग जाइयावरचड हुंडायवच्छिवनपुमिच्छं । सोलंतो इगहियसय सासणि तिरिथीणदुहगतिगं ॥४॥
7
नर० नरकत्रिकं= नरकगति नरकानुपूर्वी नरकायूरूपम्, जातिचतुष्कमेकद्वि-त्रिसेवा चतुरिन्द्रियजातयः, स्थावरचतुष्कं = स्थावर- सूक्ष्मापर्याप्तसाधारणलक्षणम्, हुण्डं संस्थानम्, आतपं, संहननम्, 'नपु' त्ति नपुंसकवेदः, मिथ्यात्वमेतासां षोडशप्रकृतीनामन्तो व्यवच्छेदो मिथ्यादृष्टौ तत्र भावः तदुत्तरेषु चाऽभावो, मिथ्यात्वप्रत्ययत्वादेतत्प्रकृतिबन्धस्य तस्य चोत्तरन्नाभावात् तत: सासादने प्रकृतिषोडशके सप्तदशोत्तरशतादपनीते शेषमेकोत्तरं शतम् । तीर्थकरनाम्नस्तु सत्यपि तत्प्रत्यये सम्यक्त्वे नास्तीह् बन्धस्तस्य हि बन्धारम्भः शुद्धसम्पद्रष्टेरेव, तत्कर्मा च सासादनत्वं न प्राप्नोति । तिर्यत्रिकं = दुर्भगत्रिकं= तिर्यग्गति- तिर्यगानुपूर्वी तिर्यगापुः, स्त्यानर्द्धित्रिकं निद्रानिद्रा- प्रचलाप्रचला - स्त्यानर्द्धिः, दुर्भग- दु: स्वरानादेयरूपम् ||४||