SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ कर्मस्तवनामा द्वितीयः कर्मग्रन्थः । वा सन्नुपदशमण्य दर्शनमोहत्रितयमुपशमयति, तदुपशमानन्तरं प्रमत्ताप्रमत्तगुणस्थानपरिवृत्तिशतानि कृत्वा ततोऽपूर्वकरणगुणस्थानोत्तरकालमनिवृत्तिबादरसम्परायगुणस्थाने चारित्रमोहनीयस्य प्रथमं नपुंसकवेदमुपशमयति, तत: स्त्रीवेदमित्यादि यावत् सूक्ष्मसंपरायगुणस्थाने सज्वलनलोभमुपशमयतीति, तदेवमन्येष्वपि गुणस्थानेषु क्वापि कियतां कषायाणामुपशान्त्वत्सम्भवादतस्तद्रूचवच्छेदार्थं वीतरागग्रहणम् ॥१३॥ क्षीणकषायवीतरागच्छद्मस्थगुणस्थानं । तत्रानन्तानुबन्धिकषायान् प्रथममविरतसम्यगहप्याद्यप्रमत्तान्तगुणस्थानेषु क्षपयति, दर्शनत्रितयं चैतेष्वेव गुणस्थानकेषु क्षपयति । इत्येवं यावत् सज्वलनलोभं सूक्ष्मसंपरायगुणस्थाने, तदेवमन्येष्वपि सरागेषु क्षीणकषायव्यपदेश: सम्भवति, अतस्तद्वयबच्छेदार्थं वीतरागग्रहणम् ।।१२।। वीर्यान्तरायक्षपक्षयोपशमसमुत्थलब्धिविशेषप्रत्ययमात्मनो वीर्यं योगः । स द्विधा-→स. करणोऽकरणश्च । तत्रालेश्यस्य केवलिनः कृत्स्नयो यदृश्ययोरर्थयो: केवलं ज्ञानं दर्शनं चोपयुञ्जानस्य योऽसावपरिस्पन्दोऽप्रतिमो वीर्यविशेष: सोऽकरणः, स च नेहाधिक्रियते । यस्तु मनोवाकायकरणसाधन: स सकरणस्तेनेहाधिकारः । तत्र कायिकः चक्रमणनिमेषोन्मेषादौ, वाचिको देशनादौ, मानसो मन:पर्यायज्ञानिभिरनुत्तरसुरादिर्भिवा मनसा पृष्टस्य सतो मनसैव देशनायां, ते हि भगवत्प्रयुक्तानि मनोद्रव्याणि मनपर्यायज्ञानेनाऽवधिज्ञानेन च पश्यन्ति, ततस्तद्वारेण पृष्टमर्थमवगच्छन्ति । सह योगेन वर्त्तत इनि सयोगः सयोगीति वा, स चासौ केवली च सयोगिकेवली, तस्य गुणस्थानम् ॥१३|| नास्ति योगोऽस्येत्ययोगी, स त्रिविधोऽपि योग: प्रत्येकं द्विविधः सूक्ष्मो बादरश्च । तत्र केवलोत्पत्तेत्तकालमन्तर्मुहूर्तावशेषायुष्क: सयोगिकेवली प्रथमं बादरकाययोगेन बादरवाग्मनोयोगी निरुणद्धि, ततः सूक्ष्मकाययोगेन बादरं काययोगं निरुणद्धि, ततश्च सर्वबादरयोगनिरोधनान्तरं सूक्ष्मक्रियमनिवृत्तिशुक्लध्यानं ध्यायन् सूक्ष्मकाययोगेन सूक्ष्मवाग्मनोयोगी निरुणद्धि, ततस्तमेव सूक्ष्मकाययोग स्वात्मनैव निरुणद्धि । तत: समुच्छिन्नक्रियमप्रतिपानिशुक्लध्यानं ध्यायन् हस्वपञ्चाक्षरोच्चारणकालमात्रं शैलेशीकरणप्रविष्टो भवति, शीलस्य-योगलेश्याकलङ्कविप्रमुक्तस्य यथाख्यातचारित्रलक्षणस्य य ईशः स शीलेश:, तस्येयं शैलेशी-त्रिभागेन स्वदेहावगाहनायामात्मनोऽत्यन्तस्थिरावस्थितिरित्यर्थः, तस्यां करणं पूर्वरचितशैलेशीसमयसमानगुणश्रेणीकस्य वेदनीयनामगोत्राख्यस्याऽयातिकर्मत्रितयस्यासंख्येयगुणया श्रेण्यायु:
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy