________________
गुणरत्नसूरिविरचित-अवचूण्युपतः क्षिप्रतरक्षपणाय प्रतिक्षणमसंख्येयगुणवृद्ध्या विरचनं गुणश्रेणिरित्युच्यते । एतां च पूर्वगुणस्थानेष्वविशुद्धतरत्वात् कालतो द्राधीयसी दलिकरचनामाश्रित्य संकीर्णतरामल्पदलिकस्यापवर्तनाद् विरचितवानिह तु विशुद्धतरत्वादपूर्वां कालतो ह्रसीयसी दलिकरचनामाश्रित्य पृथुतरां बहुतरदलिकापवर्तनादिरचयति । तथा बध्यमानशुभप्रकृतिषु [अबध्यमान]अशुभप्रकृतिदलिकस्य प्रतिक्षणमसंख्येयगुणवृद्धया विशुद्धिवशान्नयन गुणसङ्क्रमस्तमिहासावपूर्वं करोति । तथा स्थितिं कर्मणां द्राधीपसी प्राग् बद्धवानिह तु तामपूर्वां विशुद्धत्वादेव ह्रस्वीयसी बध्नाति । अयं चापूर्वकरणो द्विधा -→क्षपक उपशमकश्च, क्षपणोपशमनार्हत्वाद् राज्याईकुमारराजवन्न पुनरसौ क्षपयत्युपशमयति वा तस्य गुणस्थानमपूर्वगुणस्थानम् । अपूर्वकरणाद्भाया आन्तमौर्रातिक्याः प्रथमसमये जघन्यादीन्युत्कृष्टान्तान्यध्यवसायस्थानान्यसङ्ख्येयलोकाकाशप्रदेशप्रमाणानि, द्वितीयस मये तदन्यान्यधिकतराणि, एव यावन्वरमसमयः प्रयास मदान असामगोत्कृष्टमनन्तगुणविशुद्धम्, तस्माद् द्वितीयसमये जघन्यमनन्तगुणविशुद्धम्, तस्मात्तदुत्कृष्टमनन्तगुणविशुद्धमित्येवं यावच्चरमसमयोत्कृष्टम् । एकसमयगतानि तु परस्परं षट्स्थानपतितानि, युगपदेतद्वणस्थानप्रविष्टानां बहना जीवानां परस्परमध्यवसायस्थानस्य भेदलक्षणा निवृत्तिरप्यस्तीति निवृत्तिबादरगुणस्थानमपीदमुच्यते ।।८।।
युगपदेतद्गुणस्थानं प्रतिपन्नानां जीवानामन्योन्यस्य सम्बन्धिनोऽध्यवसायस्थानस्य व्यावृत्तिर्नास्त्यस्येत्यनिबृत्तिरन्येषां यदध्यवसायस्थानमसावपि कश्चित् तद्वर्तीत्यर्थः । सम्पराय:-कषायोदयो, बादर: स्थूलः सम्परायो यस्य स बादरसम्पराय: । सूक्ष्मकिट्टीकृतसम्परायापेक्षया बादरत्वम् । अनिवृत्तिश्चासौ बादरसम्परायश्चानिवृत्तिबादरसम्पराय: । स च द्विविध: → क्षपक उपशमको वा, क्षपयत्युपशमयति वा मोहनीयादि कर्मेति कृत्वा तस्य गुणस्थानमिदमप्यन्तर्मुहर्तप्रमाणमेव । तत्र चान्तर्मुहर्ते यावन्तः समयास्तत्प्रविष्टानां तावन्त्येवाध्यवसायस्थानानि स्युरेकसमयप्रविष्टानामेकस्यैवाध्यवसायस्यानुवर्तनात् ।।९॥
किट्टीकृतलोभकषायोदयरूपो यस्य, सोऽपि द्विधा → क्षपक उपशमको वा, अपपत्युप. शमयति वा लोभमेकमपीति कृत्वा तस्य गुणस्थानम् ।।१०।।
उपशान्तकपायवीतरागच्छद्मस्थगुणस्थानम् । तत्राविरतसम्यगदृष्टेः प्रभृत्यनन्तानुबन्धिनः कपाया उपशान्ता भवन्ति, उपशमश्रेण्यारम्भे यनन्तानुबन्धिकषायान् अविरतो देशविस्तः प्रमत्तोऽप्रमत्तो । १८हरवीयसीम्-हेद, ला८ । २०द्राधीयसीम्-हे. ला |