________________
कर्मस्तवनामा द्वितीयः कर्मग्रन्थः शान्ताद्धायां जघन्येन समयशेषायामुत्कर्षेण षडावलिकाशेषायां कस्यचिदनन्तानुबन्ध्युदयो भवति, तदुदये चासौ सासादनसम्यादृष्टिगुणस्थाने वर्तते । उपशमश्रेणिपतितो वा कश्चित्सासादनत्वं यानि । तदुत्तरकालमवश्यं मिथ्यात्वोदयादसौ मिथ्यादृष्टिर्भवति ।।२।।
सम्यग्मिथ्यादृष्टिगुणस्थानं वर्णितविधिनौपशमिकसम्यक्त्वमौषधविशेषकल्पमासाद्य मदनकोद्रवस्थानीयं दर्शनमोहनीयमशुद्धं कर्म त्रिधा भवति, अशुद्धमर्द्धशुद्धं विशुद्धं च, त्रयाणां चैतेषां पुञ्जानां मध्ये पदाऽर्द्धविशुद्धः पुञ्ज उदेति, तदार्द्धविशुद्धमर्हदृष्टतत्त्वश्रद्धानं स्यान्, तत्तदाऽसौ सम्यग्मिध्यादृष्टिगुणस्थानमन्तर्मुहूर्त स्पृशति, तत ऊर्ध्वमवश्यं सम्यक्त्वं मिथ्यात्वं वा गच्छति ||३||
तथा विरतिर्विरतं, तत्पुनः सावद्ययोगप्रत्याख्यानं, तुन्न जानाति नाभ्युपगच्छति न तत्पालनाय यतते इति त्रयाणां पदानामष्टौ भङ्गास्तत्र प्रथमेषु चतुर्ष मिथ्यादृष्टिरज्ञानित्वाल्लभ्यते, शेषेषु सम्यम्दृष्टिस्तस्य ज्ञानमेव भवति । सप्तसु भङ्गेषु नास्य विरतमित्यविरतश्वरमभङ्गे तु विरतिरस्ति, अष्टभङ्गी स्थापना →sssss| 5I5 55।।55 || IIS ||| अविरतश्चासौ सम्यग्दृष्टिश्च तस्य गुणस्थानम्, सम्यग्दृष्टित्वं पुनरौपशमिकसम्यक्त्वे वर्णितान्तरकरणकालसम्भवे विशुद्धदर्शनमोहपुञ्जकोदयकालसम्भवे वा मायोपशमिकसम्यक्त्वे, सर्वदर्शनमोहक्षयसम्भवे बा क्षायिकसम्यक्त्वे सति भवति, विरत: पुनरप्रत्याख्यानावरणकषायोदयवशान्न भवति ।।४।।
करणत्रययोगत्रयविषयसर्वसावद्ययोगस्य देशे विरतमस्यास्तीति देशविरतः ||५|| प्रमत्तः =प्रमादवान् स चासौ संयतश्च ||६|| अप्रमत्तो-विकथादिप्रमादरहितः, स चासौ संयतश्च ।।७।।
अपूर्वं करणं स्थितिघातरसघातगुणश्रेणिगुणसङ्क्रमस्थितिबन्धानां पञ्चानामर्थानां निर्वर्तनमस्याऽसावऽपूर्वकरणस्तथाहि -→बृहत्प्रमाणाया ज्ञानावरणीयादिकर्मस्थितेरपवर्त्तनाकरणेन खण्डनमल्पीकरणं स्थितिघानो । रसस्यापि प्रचुरीभूतस्य सतोऽपवर्तनाकरणेन खण्डनं रसघात: । एतौ द्वावपि पूर्वगुणस्थानेषु विशुद्धेरल्पत्वादल्पावेव कृतवान्, अत्र पुनर्विशुद्धेः प्रकृष्टत्वाद्वृहत्प्रमाणतपाऽपूर्वाविमौ करोति । तथोपरितनस्थितेर्विशुद्धिवशादपवर्त्तनाकरणेनावतारितस्य दलिकस्यान्तर्मुहूर्नप्रमाणमुदयक्षणादुपरि